चतुर्थः पाठः
सदैव पुरतो निधेहि चरणम्
[ श्रीधरभास्कर वर्णेकर द्वारा विरचित प्रस्तुत गीत में चुनौतियों को स्वीकार करते हुए आगे बढ़ने का आह्वान किया गया है। इसके प्रणेता राष्ट्रवादी कवि हैं और इस गीत के द्वारा उन्होंने जागरण तथा कर्मठता का सन्देश दिया है । ]
चल चल पुरतो निधेहि चरणम् ।
सदैव पुरतो निधेहि चरणम्।।
अन्वय - ( त्वं ) चल चल पुरतो चरणं निधेहि । सदैव पुरतो चरणं निधेहि ।
सरलार्थ - तुम चलो चलो, आगे कदम रखो ( बढ़ाओ ) । हमेशा ही आगे कदम बढ़ाओ ।
गिरिशिखरे ननु निजनिकेतनम्।
विनैव यानं नगारोहणम् ।।
बलं स्वकीयं भवति साधनम्।
सदैव पुरतो...............||
अन्वय - ननु निजनिकेतनं गिरिशिखरे (अस्ति ) । विना यानं एव नगारोहणम् । स्वकीयं बलं ( एव अस्माकं ) साधनं भवति । ( अतः त्वं ) सदैव पुरतो चरणं निधेहि ।
सरलार्थ - निश्चय ही अपना घर पर्वत की चोटी पर है। बिना वाहन के ही पहाड़ पर चढ़ना है। अपना बल ही अपना साधन होता है । इसलिए तुम सदा ही आगे कदम बढ़ाओ ।
पथि पाषाणाः विषमाः प्रखराः ।
हिंस्राः पशवः परितो घोराः ॥
सुदुष्करं खलु यद्यपि गमनम्।
सदैव पुरतो.........................||
अन्वय - पथि विषमाः प्रखराः (च) पाषाणाः, परितः हिंसाः घोराः पशवः (भ्रमन्ति) | यद्यपि गमनं खलु सुदुष्करं (अस्ति ) | ( तथापि त्वं ) सदैव पुरती चरणं निधेहि ।
सरलार्थ - रास्ते में विचित्र से नुकीले और ऊबड़-खाबड़ पत्थर और चारों और भयानक हिंसक जानवर घूमते हैं। यद्यपि यात्रा निश्चित रूप से अत्यन्त कठिन है । फिर भी तुम सदा आगे कदम बढ़ाओ ।
जहीहि भीतिं भज - भज शक्तिम् ।
विधेहि राष्ट्रे तथाऽनुरक्तिम् ॥
कुरु कुरु सततं ध्येय - स्मरणम्।
सदैव पुरतो..........................||
अन्वय - (त्वं) भीतिं जहीहि शक्तिम् भज-भज । तथा राष्ट्रे अनुरक्तिम् विदेहि । सततं (स्व) ध्येय - स्मरणं कुरू कुरू । (त्वं) सदैव पुरतो चरणं निधेहि ।
सरलार्थ - तुम डर को छोड़ दो, अपनी शक्ति को जपो ( याद करो) । उसी प्रकार अपने देश से प्रेम करो । निरन्तर अपने उद्देश्य का स्मरण करो। तुम सदा ही आगे कदम बढ़ाओ ।
अभ्यासः
1. पाठे दत्तं गीतं सस्वरं गायत ।
2. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) स्वकीयं साधनं किं भवति ? बलम्
ख) पथि के विषमाः प्रखराः ? पाषाणाः
(ग) सततं किं करणीयम् ? ध्येय - स्मरणम्
घ) एतस्य गीतस्य रचयिता क: ? श्रीधर भास्कर वर्णेकरः
(ङ) स कीदृशः कविः मन्यते ? राष्ट्रवादी
3. मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
निधेहि विधेहि जहीहि देहि भज चल कुरु
यथा-त्वं पुरतः चरणं निधेहि ।
(क) त्वं विद्यालयं चल |
ख) राष्ट्रे अनुरक्तिं विधेहि |
(ग) मह्यं जलं देहि |
(घ) मूढ! जहीहि धनागमतृष्णाम्।
ङ) भज गोविन्दम्।
(च) सततं ध्येयस्मरणं कुरू |
4. (अ) उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
यथा-पुरतः चरणं निधेहि । आम्
(क) निजनिकेतनं गिरिशिखरे अस्ति । आम्
ख) स्वकीयं बलं बाधकं भवति । न
(ग) पथि हिंस्राः पशवः न सन्ति । न
(घ) गमनं सुकरम् अस्ति । न
ङ) सदैव अग्रे एव चलनीयम् । आम्
(आ) वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
परितः पुरतः
नगः नाग:
आरोहणम् अवरोहणम्
विषमाः समाः
परितः (चारों ओर) - गृहं परितः वृक्षाः सन्ति ।
पुरतः ( सामने / आगे) - विद्यालस्य पुरतः उद्यानम् अस्ति ।
नगः (पर्वत) - हिमालयः एकः प्रसिद्धः नगः अस्ति ।
नाग: (सर्प) - वने एकः नागः वसति ।
आरोहणम् ( चढ़ना) - पर्वतस्य आरोहणं दुष्करं भवति ।
अवरोहणम् ( उतरना ) - पर्वतात् अवरोहणं सुकरं भवति ।
विषमाः (असमान) - वने विषमाः वृक्षाः सन्ति ।
समा: (समान) - अध्यापकाय सर्वे छात्राः समाः भवन्ति ।
5. मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
एव खलु तथा परितः पुरतः सदा विना
(क) विद्यालयस्य पुरत: एकम् उद्यानम् अस्ति।
(ख) सत्यम् एव जयते।
(ग) किं भवान् स्नानं कृतवान् खलु ?
(घ) सः यथा चिन्तयति तथा आचरति ।
(ङ) ग्रामं परितः वृक्षाः सन्ति ।
(च) विद्यां विना जीवनं वृथा ।
(छ) सदा भगवन्तं भज ।
6. विलोमपदानि योजयत-
पुरतः विरक्तिः पुरतः पृष्ठतः
स्वकीयम् आगमनम् स्वकीयम् परकीयम्
भीतिः पृष्ठतः भीतिः साहसः
अनुरक्तिः परकीयम् अनुरक्तिः विरक्तिः
गमनम् साहसः गमनम् आगमनम्
7. (अ) लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत-
लट्लकारे लोट्लकारे विधिलिङ्लकारे
यथा- पठति पठतु पठेत्
खेलसि खेल खेले:
खादन्ति खाद्न्तु खादेयुः
पिबामि पिबानि पिबेयम्
हसत: हसेताम् हसताम्
नयाम नयाम नयेम
(आ) अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
यथा गिरिशिखर (सप्तमी-एकवचने) गिरिशिखरे
पथिन् (सप्तमी-एकवचने) पथि
राष्ट्र (चतुर्थी - एकवचने) राष्ट्राय
पाषाण (सप्तमी - एकवचने) पाषाणे
यान (द्वितीया-बहुवचने) यानानि
शक्ति (प्रथमा - एकवचने) शक्तिः
पशु (सप्तमी - बहुवचने) पशुषु
Either way the teacher or student will get the solution to the problem within 24 hours.