The NCERT Sanskrit Textbook for Class 8 Solution अध्याय-12 क: रक्षति क: रक्षित:

द्वादशः पाठः

कः रक्षति कः रक्षितः

[ प्रस्तुत पाठ स्वच्छता तथा पर्यावरण सुधार को ध्यान में रखकर सरल संस्कृत में लिखा गया एक संवादात्मक पाठ है। हम अपने आस-पास के वातावरण को किस प्रकार स्वच्छ रखें तथा यह भी ध्यान रखें कि नदियों को प्रदूषित न करें, वृक्षों को न काटें, अपितु अधिकाधिक वृक्षारोपण करें और धरा को शस्यश्यामला बनाएँ । प्लास्टिक का प्रयोग कम करके पर्यावरण संरक्षण में योगदान करें। इन सभी बिन्दुओं पर इस पाठ में चर्चा की गई है। पाठ का प्रारंभ कुछ मित्रों की बातचीत से होता है, जो सायंकाल में दिन भर की गर्मी से व्याकुल होकर घर से बाहर निकले हैं - ]

(ग्रीष्मर्ती सायंकाले विद्युदभावे प्रचण्डोष्मणा पीडितः वैभव : गृहात् निष्क्रामति)

वैभवः - अरे परमिन्दर्! अपि त्वमपि विद्युदभावेन पीडितः बहिरागत: ?
परमिन्दर् - आम् मित्र! एकतः प्रचण्डातपकालः अन्यतश्च विद्युदभावः परं बहिरागत्याप्ि पश्यामि यत् वायुवेगः तु सर्वथाऽवरुद्धः । सत्यमेवोक्तम्

सरलार्थ - (ग्रीष्म ऋतु में शाम के समय बिजली के अभाव में तेज गर्मी से परेशान वैभव घर से बाहर निकलता है ।)
वैभव - अरे परमिन्दर ! क्या तुम भी बिजली के अभाव से परेशान होकर बाहर आए हो?
परमिन्दर - हाँ मित्र ! एक तो तेज गर्मी और दूसरा बिजली का अभाव परन्तु बाहर आकर देखता हूँ कि हवा का वेग तो सभी ओर से रूका है । सत्य ही कहा है-

प्राणिति पवनेन जगत् सकलं, सृष्टिर्निखिला चैतन्यमयी । 
क्षणमपि न जीव्यतेऽनेन विना, सर्वातिशायिमूल्यः पवनः ॥

अन्वय - सकलं जगत् पवनेन प्राणिति (अस्ति), निखिला सृष्टिः चैतन्यमयी ( अस्ति ) । अनेन (पवनेन ) विना क्षणमपि न जीव्यते, पवनः सर्वातिशायिमूल्य: ( अस्ति) ।

सरलार्थ - सम्पूर्ण संसार हवा से प्राणवान (जीवित) है, सम्पूर्ण सृष्टि चैतन्यमयी है । इसके (हवा के ) बिना क्षण भर भी नहीं जी सकते, हवा सबसे अधिक मूल्यवान है ।

विनयः - अरे मित्र ! शरीरात् न केवलं स्वेदबिन्दवः अपितु स्वेदधाराः इव प्रस्स्रवन्ति स्मृतिपथमायाति शुक्लमहोदयैः रचितः श्लोकः ।

सरलार्थ - 
विनय - अरे मित्र शरीर से केवल पसीने की बूंदे नही अपितु पसीने की धारा बह रही है। शुक्लमहोदय के द्वारा रचित श्लोक याद आ रहा है।

तप्तैर्वाताघातैरवितुं लोकान् नभसि मेघाः,
आरक्षिविभागजना इव समये नैव दृश्यन्ते ||

अन्वय - लोकान् तप्तैः वाताघातैः अवितुं आरक्षितविभागजना इव नभसि मेघाः समये नैव दृश्यन्ते । 

सरलार्थ - संसार को गर्म हवा (लू) के आघात से बचाने के लिए पुलिस वालों की तरह आकाश में बादल समय पर नहीं दिखाई दे रहे हैं।

परमिन्दर् आम् अद्य तु वस्तुतः एव-

सरलार्थ -
परमिन्दर - हाँ आज तो निश्चय ही  -

निदाघतापतप्तस्य, याति तालु हि शुष्कताम्।
पुंसो भयार्दितस्येव, स्वेदवज्जायते वपुः ॥

अन्वय - निदाघतापतप्तस्य (मनुष्यस्य) तालु हि शुष्कतां याति । वपुः पुंसो भयादिः तस्येव स्वेदवत् जायते ।

सरलार्थ - गर्मी के ताप से दुःखी मनुष्य का तालु ही सूख जाता है। शरीर डरे हुए मनुष्य के समान पसीने से तर हो जाता है ।

जोसेफः - मित्राणि! यत्र-तत्र बहुभूमिकभवनानां भूमिगतमार्गाणाम्, विशेषतः मैट्रोमार्गाणां, उपरिगमिसेतूनाम् मार्गेत्यादीनां निर्माणाय वृक्षाः कर्त्यन्ते तर्हि अन्यत् किमपेक्ष्यते अस्माभिः ? वयं तु विस्मृतवन्तः एव -

सरलार्थ - 
जोसेफ - मित्रो! जहाँ-तहाँ बहुमंजिला इमारतों के, जमीन के नीचे बने रास्तों के, विशेष रूप से मैट्रो मार्गो के, ऊपर से जाने वाले रास्तों (फ्लाय ओवर) मार्गों इत्यादि के निर्माण के लिए वृक्ष काटे जा रहे हैं तो हमारे द्वारा अन्य क्या अपेक्षा की जा सकती है? हम तो भूल ही गए हैं |

एकेन शुष्कवृक्षेण दह्यमानेन वह्निना । 
दयते तद्वनं सर्वं कुपुत्रेण कुलं यथा ॥

अन्वय - यथा कुपुत्रेण कुलं (नाश्यति, तथैव ) वह्निना दह्यमानेन एकेन शुष्कवृक्षेण तद् सर्वम् वनं दह्यते ।

सरलार्थ - जैसे कुपुत्र के द्वारा कुल का नाश होता है, वैसे ही एक सूखा वृक्ष अग्नि के द्वारा जलाए जाने पर उस संपूर्ण वन को जला देता है ।

परमिन्द - र्आम् एतदपि सर्वथा सत्यम् । आगच्छन्तु नदीतीरं गच्छामः । तत्र चेत् काञ्चित्ं शान्तिं प्राप्तुं शक्ष्येम
(नदीतीरं गन्तुकामाः बालाः यत्र-तत्र अवकरभाण्डारं दृष्ट्वा वार्तालापं कुर्वन्ति )
जोसेफः -  पश्यन्तु मित्राणि यत्र-तत्र प्लास्टिकस्यूतानि अन्यत् चावकरं प्रक्षिप्तमस्ति । कथ्यते यत् स्वच्छता स्वास्थ्यकरी परं वयं तु शिक्षिताः अपि अशिक्षित इवाचरामः अनेन प्रकारेण....
वैभवः - गृहाणि तु अस्माभिः नित्यं स्वच्छानि क्रियन्ते परं किमर्थं स्वपर्यावरणस्य स्वच्छतां प्रति ध्यानं न दीयते
विनयः - पश्य-पश्य उपरितः इदानीमपि अवकरः मार्गे क्षिप्यते । (आहूय) महोदये! कृपां कुरु मार्गे एतत् तु सर्वथा अशोभनं कृत्यम् । अस्मद्सदृशेभ्यः बालेभ्यः भवतीसदृशैः एवं संस्कारा देयाः ।

सरलार्थ - 
परमिन्दर - हाँ यह भी सर्वथा सत्य है । आओ नदी के किनारे चलते हैं । वहाँ कुछ शान्ति प्राप्त कर सकते हैं।
( नदी के किनारे जाने के इच्छुक बालक जहाँ-तहाँ कचरे के ढेर को देखकर बातें करते हैं ।)
जोसेफ - देखो मित्रों जहाँ-तहाँ प्लास्टिक की थैलियाँ और दूसरा कचरा फेंका हुआ है । कहते हैं कि स्वच्छता स्वास्थ्य की जननी है, परन्तु इस प्रकार हम तो शिक्षित होते हुए भी अशिक्षित के समान आचरण करते हैं ।
वैभव - घर तो हमारे द्वारा प्रतिदिन साफ किए जाते हैं परन्तु अपने पर्यावरण की स्वच्छता की ओर ध्यान क्यों नहीं दिया जाता है ।
विनय -  देखो, देखो ऊपर से अभी भी रास्ते पर कचरा फेंका जा रहा है । (बुलाकर) हे महोदया ! रास्ते पर कृपा करो, यह तो सर्वथा गलत कार्य है । हम जैसे बालकों को आप जैसी महिलाओं के द्वारा ऐसे संस्कार दिए जाते हैं ।

रोजलिन् - आम् पुत्र! सर्वथा सत्यं वदसि । क्षम्यन्ताम् । इदानीमेवागच्छामि ।
(रोजलिन् आगत्य बालैः साकं स्वक्षिप्तमवकरं मार्गे विकीर्णमन्यदवकरं चापि सङ्गृह्य अवकरकण्डोले पातयति)
बालाः - एवमेव जागरूकतया एव प्रधानमन्त्रिमहोदयानां स्वच्छताऽभियानमपि गतिं प्राप्स्यति।
विनयः - पश्य पश्य तत्र धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति । यथाकथञ्चित निवारणीया एषा (मार्गे कदलीफलविक्रेतारं दृष्ट्वा बाला: कदलीफलानि क्रीत्वा धेनुमाह्वयन्ति भोजयन्ति च, मार्गात् प्लास्टिकस्यूतानि चापसार्य पिहिते अवकरकण्डोले क्षिपन्ति )
परमिन्दर् - प्लास्टिकस्य मृत्तिकायां लयाभवात् अस्माकं पर्यावरणस्य कृते महती क्षति: भवति । पूर्वं तु कार्पासेन, चर्मणा, लौहेन, लाक्षया, मृत्तिकया, काष्ठेन वा निर्मितानि वस्तूनि एव प्राप्यन्ते स्म । अधुना तत्स्थाने प्लास्टिकनिर्मितानि वस्तूनि एव प्राप्यन्ते
वैभवः - आम् घटिपट्टिका, अन्यानि बहुविधानि पात्राणि, कलमेत्यादीनि सर्वाणि तु प्लास्टिकनिर्मितानि भवन्ति ।

सरलार्थ - 
रोजलिन – हाँ बेटा ! सर्वथा सत्य बोल रहे हो । क्षमा करो। अभी ही आ रही हूँ ।
( रोजलिन आकर बालकों के साथ खुद के द्वारा फेंका हुआ कचरा और रास्ते में फैला दूसरा कचरा भी उठाकर कचरेदान में डालती है।)
बालक - इस प्रकार ही जागरूकता से ही प्रधानमंत्री महोदय के स्वच्छता अभियान को भी गति प्राप्त होगी
विनय - देखो, देखो वहाँ गाय सब्जी-फलों के छिलकों के साथ प्लास्टिक की थैली खा रही है। जैसे तैसे इसका निवारण किया जाए । (रास्ते में केला बेचने वाले को देखकर केले खरीदकर गाय को बुलाते हैं और खिलाते हैं, और रास्ते से प्लास्टिक की थैलियाँ उठाकर ढके हुए कूड़ेदान में डालते हैं।
परमिन्दर - प्लास्टिक के मिट्टी में मिल न पाने से हमारे पर्यावरण का बहुत नुकसान होता है। पहले तो कपास से, चमड़े से, लोहे से, लाख से, मिट्टी से अथवा लकड़ी से निर्मित वस्तुएँ ही मिलती थी । अब उनके स्थान पर प्लास्टिक से बनी वस्तुएँ ही मिलती हैं ।
वैभव - हाँ घड़ी का पट्टा, अन्य बहुत प्रकार के बर्तन, कलम आदि सब तो प्लास्टिक से ही बना होता है|

जोसेफः - आम अस्माभिः पित्रो : शिक्षकाणां सहयोगेन प्लास्टिकस्य विविधपक्षाः विचारणीयाः। पर्यावरणेन सह पशवः अपि रक्षणीयाः । (एवमेवालपन्तः सर्वे नदीतीरं प्राप्ताः, नदीजले निमज्जिताः भवन्ति गायन्ति च-

सरलार्थ - 
जोसेफ - हाँ हमारे द्वारा माता - पिता और शिक्षकों के सहयोग से प्लास्टिक के अनेक पक्ष पर विचार करना चाहिए। पर्यावरण के साथ पशुओं की भी रक्षा करनी चाहिए। इस प्रकार बात करते हुए सभी नदी के किनारे पहुँचते हैं, नदी के जल में स्नान करते हैं और गाते हैं |

सुपर्यावरणेनास्ति जगतः सुस्थितिः सखे ।
जगति जायमानानां सम्भवः सम्भवो भुवि ॥

अन्वय - सखे सुपर्यावरणेन जगतः सुस्थितिः (अस्ति ) । जगति जायमानानां सम्भवः भुवि सम्भवो (अस्ति ) ।

सरलार्थ - हे मित्र ! अच्छे पर्यावरण से ही संसार की अच्छी स्थिति है । संसार में उत्पन्न हुए जीवों की उत्पत्ति केवल पृथ्वी पर ही संभव है ।

सर्वे - अतीवानन्दप्रदोऽयं जलविहारः ।

सरलार्थ - यह पानी में तैरना अत्यंत आनंद देने वाला है।

अभ्यासः

1. प्रश्नानामुत्तराणि एकपदेन लिखत- 
(क) केन पीडितः वैभव: बहिरागतः ?                                                        प्रचण्डोष्मणा
(ख) भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?                                                       वृक्षाः
(ग) मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालापं कुर्वन्ति ?                               अवकरभाण्डारम् 
(घ) वयं शिक्षिताः अपि कथमाचराम: ?                                                       अशिक्षित इव
(ङ) प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति ?  पर्यावरणस्य
(च) अद्य निदाघतापतप्तस्य किं शुष्कतां याति ?                                             तालुः
2. पूर्णवाक्येन उत्तराणि लिखत-
(क) परमिन्दर् गृहात् बहिरागत्य किं पश्यति?
उ. परमिन्दर् गृहात् बहिरागत्य पश्यति यत् वायुवेगः सर्वथा अवरुद्धः अस्ति ।
(ख) अस्माभिः केषां निर्माणाय वृक्षाः कर्त्यन्ते ?
उ. अस्माभिः बहुभूमिकभवनानां भूमिगतमार्गाणां, उपरिगमिसेतूनां च निर्माणाय वृक्षाः कर्त्यन्ते ।
(ग) विनयः रोजलिनम्माहूय किं वदति ?
उ. विनयः वदति यत् "महोदये! कृपां कुरु मार्गे भ्रमद्भ्यः । एतत् तु सर्वथा अशोभनं कृत्यम्। अस्मद्सदृशेभ्यः बालेभ्यः भवतीसदृशैः एव संस्काराः देयाः ।
(घ) रोजलिन् आगत्य किं करोति ?
उ. रोजलिन् आगत्य बालैः साकं स्वक्षिप्तमवकरं मार्गे विकीर्णमन्यदवकरं चापि संगृहय अवकरकण्डोले पातयति ।
(ङ) अन्ते जोसेफ : पर्यावरणरक्षायै कः उपायः बोधयति ?
उ. अन्ते जोसेफः पर्यावरणरक्षायै उपायः बोधयति यत् अस्माभिः पित्रोः शिक्षकाणां च सहयोगेन प्लास्टिकस्य विविधपक्षाः विचारणीयाः । पर्यावरणेन सह पशवः अपि रक्षणीयाः ।
3. रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत- (क) जागरूकतया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति । उ. कया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति ? (ख) धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म । उ. धेनुः कैः सह प्लास्टिकस्यूतमपि खादति स्म । (ग) वायुवेगः सर्वथाऽवरुद्धः आसीत्। उ. कः सर्वथाऽवरुद्धः आसीत्? (घ) सर्वे अवकरं सङ्गृह्य अवकरकण्डोले पातयन्ति ।
उ. सर्वे अवकरं संगृह्य कस्मिन् / कुत्र पातयन्ति ?
(ङ) अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते ।
उ. अधुना प्लास्टिकनिर्मितानि कानि प्रायः प्राप्यन्ते ?
(च) सर्वे नदीतीरं प्राप्ताः प्रसन्नाः भवन्ति ।
उ. सर्वे कं प्राप्ताः प्रसन्नाः भवन्ति ? 4. सन्धिविच्छेदं पूरयत-
(क) ग्रीष्मर्तौ = ग्रीष्म + ऋतौ (ख) बहिरागत्य = बहि: + आगत्य (ग) काञ्चित् = काम् + चित् (घ) तद्वनम् = तत् + वनम्
(ङ) कलमेत्यादीनि = कलम + इत्यादिनि (च) अतीवानन्दप्रदोऽयम् = अतीव + आनन्दप्रदः + अयम् 5. विशेषणपदैः सह विशेष्यपदानि योजयत- काञ्चित् अवकरम् कांचित् शान्तिम् स्वच्छानि स्वास्थ्यकरी स्वच्छानि गृहाणि पिहिते क्षतिः पिहिते अवकरकण्डोले स्वच्छता शान्तिम् स्वच्छता स्वास्थ्यकरी गच्छन्ति गृहाणि गच्छन्ति मित्राणि अन्यत् अवकरकण्डोले अन्यत् अवकरम् महती मित्राणि महती क्षतिः
6. शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां समक्षं च न इति लिखत- (क) प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः ।
(ख) मार्गे मित्राणि अवकरभाण्डारं यत्र-तत्र विकीर्ण दृष्ट्वा वार्तालापं कुर्वन्ति। आम्
(ग) अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते । आम्
(घ) वायुं विना क्षणमपि जीवितुं न शक्यते । आम् (ङ) रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।
(च) एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते ।
(छ) बालकाः धेनुं कदलीफलानि भोजयन्ति। आम् (ज) नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति । आम् 7. घटनाक्रमानुसारं लिखत- (क) उपरितः अवकरं क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति। (ख) प्लास्टिकस्य विविधान् पक्षान् विचारयितुं पर्यावरणसंरक्षणेन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति । (ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
(घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति । (ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति । (च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति ।
(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति। (ज) मार्गे यत्र-तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषय चिन्तिताः बालाः परस्परं विचारयन्ति । क. गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छति । ख. वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति ।
ग. मार्गे यत्र-तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषय चिन्तिताः बालाः परस्परं विचारयन्ति ।
घ. उपरितः अवकरं क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति । ङ. बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति । च. शाकफलानामावकरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति । छ. प्लास्टिकस्य विविधपक्षान् विचारयितुं पर्यावरणसंरक्षेणन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति । ज. अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति ।

Post a Comment

0Comments

Either way the teacher or student will get the solution to the problem within 24 hours.

Post a Comment (0)
close