दशमः पाठः
नीतिनवनीतम्
[प्रस्तुत पाठ 'मनुस्मृति' के कतिपय श्लोकों का संकलन है जो सदाचार की दृष्टि से अत्यन्त महत्त्वपूर्ण है। यहाँ माता - पिता तथा गुरुजनों को आदर और सेवा से प्रसन्न करने वाले अभिवादनशील मनुष्य को मिलने वाले लाभ की चर्चा की गई है। इसके अतिरिक्त सुख - दुख में समान रहना, अन्तरात्मा को आनन्दित करने वाले कार्य करना तथा इसके विपरीत कार्यों को त्यागना, सम्यक् विचारोपरान्त तथा सत्यमार्ग का अनुसरण करते हुए कार्य करना आदि शिष्टाचारों का उल्लेख भी किया गया है । ]
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् ॥1॥
अन्वय - अभिवादनशीलस्य (नरस्य) नित्यं वृद्धोपसेविनः (च) तस्य चत्वारि आयुः, विद्या, यशः, बलं (च) वर्धन्ते ।
सरलार्थ - प्रणाम करने वाले मनुष्य की और हमेशा बड़े-बूढ़ों की सेवा करने वाले मनुष्य की आयु, विद्या, यश और बल चारों (अपने-आप ) बढ़ते हैं ।
यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम्।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥12॥
अन्वय - नृणां सम्भवे यं क्लेशं मातापितरौ सहेते, तस्य (क्लेशस्य ) निष्कृतिः वर्षशतैरपि न कर्तुम् शक्या |
सरलार्थ - मनुष्य के जन्म के समय जो कष्ट माता-पिता सहते हैं, उस कष्ट का निस्तार सौ वर्षो में भी नहीं किया जा सकता । अर्थात् उसका ऋण सौ वर्षो में भी नहीं चुकाया जा सकता ।
तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा ।
तेष्वेव त्रिषु तुष्टेषु तपः सर्वं समाप्यते ||3||
अन्वय - नित्यं तयोः (मातापित्रोः ) आचार्यस्य च सर्वदा प्रियं कुर्यात्, तेषु त्रिषु एव तुष्टेषु (अस्माकं ) सर्वम् तपः समाप्यते ।
सरलार्थ - हमेशा उन दोनों का ( माता - पिता का ) और गुरू का सदा प्रिय (भला) करना चाहिए। उन तीनों के संतुष्ट होने पर हमारी सभी तपस्याएँ समाप्त हो जाती हैं । अर्थात् हमें सभी तपस्याओं का फल मिल जाता है ।
सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् ।
एतद्विद्यात्समासेन लक्षणं सुखदुःखयोः ||4||
अन्वय - सर्वम् परवशं दुःखं (अस्ति), सर्वम् आत्मवशं सुखम् (अस्ति ) | (वयं) समासेन सुखदुःखयो एतत् लक्षणं विद्यात् ।
सरलार्थ - सब कुछ दूसरों के वश में होना दुःख है, सब कुछ अपने वश में होना सुख है। हमें संक्षेप में सुख दुःख का यही लक्षण जानना चाहिए ।
यत्कर्म कुर्वतोऽस्य स्यात्परितोषोऽन्तरात्मनः।
तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ॥5॥
अन्वय - यत् कर्म कुर्वतः अस्य अन्तरात्मनः परितोषः स्यात्, तत् ( कर्मम् ) प्रयत्नेन कुर्वीत, विपरीतं ( कर्मम्) तु वर्जयेत् ।
सरलार्थ - जिस कार्य को करने से अन्तर आत्मा संतुष्ट हो, उस कार्य को प्रयत्नपूर्वक करना चाहिए। इसके विपरीत (संतुष्ट न होने वाले) कार्य को छोड़ देना चाहिए ।
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतां वदेद्वाचं मनः पूतं समाचरेत् ।।6।।
अन्वय - दृष्टिपूतं पादं न्यसेत्, वस्त्रपूतं जलं पिबेत् । सत्यपूतां वाचं वदेत्, मनः पूतं समाचरेत् |
सरलार्थ - दृष्टि से पवित्र ( अच्छी तरह देखकर) पैर रखना चाहिए, वस्त्र से पवित्र ( छानकर ) जल पीना चाहिए। सत्य से पवित्र (सत्य) वाणी बोलनी चाहिए, मन से पवित्र (उत्तम) आचरण करना चाहिए |
अभ्यास:
1. अधोलिखितानि प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) नृणां सम्भवे कौ क्लेशं सहेते ? मातापितरौ
(ख) कीदृशं जलं पिबेत् ? वस्त्रपूतम्
(ग) नीतिनवनीतं पाठः कस्मात् ग्रन्थात् सङ्कलित ? मनुस्मृतेः
(घ) कीदृशीं वाचं वदेत् ? सत्यपूताम्
ङ) दुःखं किं भवति ? परवशम्
(च) आत्मवशं किं भवति ? सुखम्
(छ) कीदृशं कर्म समाचरेत् ? मनःपूतम्
2. अधोलिखितानि प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
(क) पाठेऽस्मिन् सुखदुःखयोः किं लक्षणम् उक्तम् ?
उ. पाठेऽस्मिन् उक्तं यत्- सर्वम् परवशं दुःखम् अस्ति, सर्वम् आत्मवशं च सुखमस्ति ।
(ख) वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या ?
उ. मातापितरौ नृणां सम्भवे यं क्लेशं सहेते तस्य निष्कृतिः वर्षशतैः अपि कर्तुम् न शक्या ।
(ग) “ त्रिषु तुष्टेषु तपः समाप्यते' वाक्येऽस्मिन् त्रयः के सन्ति?
उ. वाक्येऽस्मिन् त्रयः सन्ति- माता, पिता गुरुश्च ।
(घ) अस्माभिः कीदृशं कर्म कर्तव्यम् ?
उ. यत् कर्म कुर्वतः आत्मनः परितोषः स्यात्, अस्माभिः तत् कर्म कर्तव्यम् ।
(ङ) अभिवादनशीलस्य कानि वर्धन्ते ?
उ. अभिवादनशीलस्य आयुः, विद्या, यशः बलं च एतानि चत्वारि वर्धन्ते ।
(च) सर्वदा केषां प्रियं कुर्यात् ?
उ. मातापितरौ गुरोश्च सर्वदा प्रियं कुर्यात् ।
3. स्थूलपदान्यवलम्ब्य प्रश्ननिर्माणं कुरुत-
(क) वृद्धोपसेविनः आयुर्विद्या यशो बलं न वर्धन्ते ।
उ. कस्य आयुर्विद्या यशो बलं च वर्धन्ते ?
ख) मनुष्यः सत्यपूतां वाचं वदेत् ।
उ. मनुष्यः कीदृशीं वाचं वदेत् ?
(ग) त्रिषु तुष्टेषु सर्वं तपः समाप्यते ?
उ. त्रिषु तुष्टेषु सर्वम् किं समाप्यते ?
(घ) मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते ।
उ. कौ नृणां सम्भवे अकथनीयं क्लेशं सहेते?
(ङ) तयोः नित्यं प्रियं कुर्यात् ।
उ. कयोः नित्यं प्रियं कुर्यात् ?
4. संस्कृतभाषयां वाक्यप्रयोगं कुरुत-
(क) विद्या (ख) तपः (ग) समाचरेत् (घ) परितोषः (ङ) नित्यम्
(क) विद्या - अभ्यासेन विना विद्या न लभ्यते ।
(ख) तपः - तपस्वी वने तपः आचरति ।
(ग) समाचरेत् - मनःपूतं समाचरेत् ।
(घ) परितोषः - शुद्धाचरणेन परितोषः भवति ।
(ङ) नित्यम् - नित्यं प्रियं ब्रूयात् ।
5. शुद्धवाक्यानां समक्षम् आम् अशुद्धवाक्यानां समक्षं च नैव इति लिखत-
क) अभिवादनशीलस्य किमपि न वर्धते । नैव
(ख) मातापितरौ नृणां सम्भवे कष्टं सहेते । आम्
(ग) आत्मवशं तु सर्वमेव दुःखमस्ति । नैव
घ) येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते । आम्
(ङ) मनुष्यः सदैव मनः पूतं समाचरेत् । आम्
(च) मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते । आम्
6. समुचितपदेन रिक्तस्थानानि पूरयत-
(क) मातापित्रोः तपसः निष्कृतिः वर्षशतैरपि कर्तुमशक्या । (दशवर्षैरपि / षष्टिः वर्षैरपि / वर्षशतैरपि )
(ख) नित्यं वृद्धोपसेविनः चत्वारि वर्धन्ते ( चत्वारि/पञ्च/षट्) ।
(ग) त्रिषु तुष्टेषु तपः सर्वं समाप्यते (जप: / तप/कर्म) ।
घ) एतत् विद्यात् समासेन लक्षणं सुखदुःखयो: । (शरीरेण/समासेन/विस्तारेण)
(ङ) दृष्टिपूतम् न्यसेत् पादम्। (हस्तम् / पादम्/मुखम् )
(च) मनुष्यः मातापित्रोः आचार्यस्य च सर्वदा प्रियम् कुर्यात्। (प्रियम्/अप्रियम्/अकार्यम्)
7. मञ्जूषातः चित्वा उचिताव्ययेन वाक्यपूर्तिं कुरुत-
तावत् अपि एव यथा नित्यं
(क) तयोः नित्यं प्रियं कुर्यात् ।
(ख) यादृशम् कर्म करिष्यसि । तादृशं फलं प्राप्स्यसि।
(ग) वर्षशतैः अपि निष्कृतिः न कर्तुं शक्या।
(घ) तेषु एव त्रिषु तुष्टेषु तपः समाप्यते ।
(ङ) यथा राजा तथा प्रजा
(च) यावत् सफलः न भवति तावत् परिश्रमं कुरु ।
Either way the teacher or student will get the solution to the problem within 24 hours.