अष्टमः पाठः
संसारसागरस्य नायकाः
[प्रस्तुत पाठ अनुपम मिश्र की कृति आज भी खरे हैं तालाब के संसार सागर के नायक नामक अध्याय से लिया गया है। इसमें विलुप्त होते जा रहे पारम्परिक ज्ञान, कौशल एवं शिल्प के धनी गजधर के सम्बन्ध में चर्चा की गयी है। पानी के लिए मानव निर्मित तालाब, बावड़ी जैसे निर्माणों को लेखक ने यहाँ संसार सागर के रूप में चित्रित किया है । ]
के आसन् ते अज्ञातनामान : ? शतशः सहस्रशः तडागाः सहसैव शून्यात् न प्रकटीभूताः । इमे एव तडागाः अत्र संसारसागराः इति । एतेषाम् आयोजनस्य नेपथ्ये निर्मापयितॄणाम् एककम्, निर्मातॄणां च दशकम् आसीत् । एतत् एककं दशकं च आहत्य शतकं सहस्रं वा रचयतः स्म। परं विगतेषु द्विशतवर्षेषु नूतनपद्धत्या समाजेन यत्किञ्चित् पठितम्। पठितेन तेन समाजेन एककं दशकं सहस्रकञ्च इत्येतानि शून्ये एव परिवर्तितानि । अस्य नूतनसमाजस्य मनसि इयमपि जिज्ञासा नैव उद्भूता यद् अस्मात्पूर्वम् एतावतः तडागान् के रचयन्ति स्म । एतादृशानि कार्याणि कर्तुं ज्ञानस्य यो नूतन: प्रविधिः विकसित:, तेन प्रविधिनाऽपि पूर्वं सम्पादितम् एतत्कार्यं मापयितुं न केनापि प्रयतितम्। अद्य ये अज्ञातनामानः वर्तन्ते, पुरा ते बहुप्रथिताः आसन् । अशेषे हि देशे तडागाः निर्मीयन्ते स्म निर्मातारोऽपि अशेषे देशे निवसन्ति स्म
सरलार्थ - वे अज्ञात नाम वाले कौन हैं ? सैकड़ों हजारों तालाब अचानक ही शून्य से नहीं प्रकट हुए हैं। ये ही तालाब यहाँ संसार रूपी सागर हैं । इनकी योजना के पीछे बनवाने वालों की इकाई और बनाने वालों की दहाई थी । ये इकाई और दहाई मिलकर सैकड़ों और हजारों को बनाते थे । परन्तु पिछले दो सौ वर्षो में नयी पद्धति से समाज ने जो कुछ पढ़ा है, पढ़े हुए उस समाज से इकाई, दहाई और हजार ये एक शून्य में ही बदल गए हैं। इस नये समाज के मन मैं यह भी जिज्ञासा नहीं उत्पन्न हुई कि हमसे पहले इन तालाबों को किसने बनाया था। ऐसे कार्यो को करने के लिए ज्ञान की जो नई तकनीक विकसित हुई है, उससे भी पहले सम्पादित हुए इन कार्यो को मापने को किसी ने भी प्रयास नहीं किया । आज जो अज्ञात नाम वाले हैं, पहले वे बहुत प्रसिद्ध थे । निश्चय ही पूरे देश में तालाब बनाये जाते थे, तालाब बनाने वाले भी पूरे देश में रहते थे ।
गजधरः इति सुन्दरः शब्दः तडागनिर्मातॄणां सादरं स्मरणार्थम्। राजस्थानस्य केषुचिद् भागेषु शब्दोऽयम् अद्यापि प्रचलति । कः गजधर : ? यः गजपरिमाणं धारयति स गजधरः । गजपरिमाणम् एव मापनकार्ये उपयुज्यते । समाजे त्रिहस्त - परिमाणात्मिकीं लौहयष्टिं हस्ते गृहीत्वा चलन्तः गजधराः इदानीं शिल्पिरूपेण नैव समादृताः सन्ति। गजधरः, यः समाजस्य गाम्भीर्यं मापयेत् इत्यस्मिन् रूपे परिचितः ।
सरलार्थ - गजधर यह सुंदर शब्द तालाब बनाने वालों के सादर स्मरण के लिए है | राजस्थान के कुछ भागों में यह आज भी प्रचलित है । गजधर कौन ? जो गज के माप को धारण करता है, वह गजधर है । गज का माप ही नापने के काम में उपयोग होता है। समाज में तीन हाथ के बराबर लोहे की छड़ को हाथ में लेकर चलते हुए गजधर अब कारीगर के रूप में आदर नहीं पाते हैं । गजधर, जो समाज की गम्भीरता को नापे, इसी रूप में जाने जाते हैं ।
गजधराः वास्तुकाराः आसन्। कामं ग्रामीणसमाजो भवतु नागरसमाजो वा तस्य नव-निर्माणस्य सुरक्षाप्रबन्धनस्य च दायित्वं गजधराः निभालयन्ति स्म । नगरनियोजनात् लघुनिर्माणपर्यन्तं सर्वाणि कार्याणि एतेष्वेव आधृतानि आसन्। ते योजना प्रस्तुवन्ति स्म, भाविव्ययम् आकलयन्ति स्म, उपकरणभारान् सङगृह्णन्ति स्म । प्रतिदाने ते न तद् याचन्ते स्म यद् दातुं तेषां स्वामिनः असमर्थाः भवेयुः । कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्यः सम्मानमपि प्रदीयते स्म ।
नमः एतादृशेभ्यः शिल्पिभ्यः
सरलार्थ - गजधर वास्तुकार थे। चाहे ग्रामीण समाज हो या शहरी समाज, उसके नये निर्माण की और सुरक्षा की जिम्मेदारी गजधर निभाते थे । नगर की योजना से लेकर छोटे निर्माण तक सभी कार्य इन पर ही आधारित थे । वे योजना को प्रस्तुत करते थे, आने वाले खर्च का अनुमान लगाते थे, साधन सामग्री को इकट्ठा करते थे । बदले में वे (पैसा) नहीं माँगते थे, जिन्हें देने में उनके मालिक असमर्थ हो । कार्य के समाप्त होने पर वेतन के अतिरिक्त गजधर को सम्मान भी दिया जाता था ।
ऐसे शिल्पकारों को नमस्कार है ।
अभ्यासः
1. एकपदेन उत्तरत-
(क) कस्य राज्यस्य भागेषु गजधरः शब्दः प्रयुज्यते ? राजस्थानस्य
(ख) गजपरिमाणं कः धारयति ? गजधरः
(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्यः किं प्रदीयते स्म ? सम्मानम्
(घ) के शिल्पिरूपेण न समादृताः भवन्ति ? गजधराः
2. अधोलिखितानां प्रश्नानामुत्तराणि लिखत-
(क) तडागाः कुत्र निर्मीयन्ते स्म ?
उ. तडागाः सम्पूर्णदेशे निर्मीयन्ते स्म ।
(ख) गजधराः कस्मिन् रूपे परिचिता: ?
उ. गजधराः वास्तुकाररूपे परिचिताः ।
(ग) गजधराः किं कुर्वन्ति स्म ?
उ. गजधराः ग्रामीणसमाजस्य नागरसमाजस्य च नव-निर्माणस्य सुरक्षाप्रबन्धनस्य च दायित्वं निभालयन्ति स्म ।
(घ) के सम्माननीया: ?
उ. गजधराः सम्माननीयाः ।
3. रेखाङ्कितानि पदानि आधृत्य प्रश्न निर्माणं कुरुत-
(क) सुरक्षाप्रबन्धनस्य दायित्वं गजधराः निभालयन्ति स्म ।
उ. कस्य दायित्वं गजधराः निभालयन्ति स्म ?
(ख) तेषां स्वामिनः असमर्थाः सन्ति ।
उ. केषां स्वामिनः असमर्थाः सन्ति ?
(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति ।
उ. कार्यसमाप्तौ कानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति ?
(घ) गजधरः सुन्दरः शब्दः अस्ति ।
उ. कः सुन्दरः शब्दः अस्ति ?
(ङ) तडागाः संसारसागराः कथ्यन्ते ।
उ. के संसारसागराः कथ्यन्ते ?
4. अधोलिखितेषु यथापेक्षितं सन्धि / विच्छेदं कुरुत-
(क) अद्य + अपि = अद्यापि
ख) स्मरण + अर्थम् = स्मरणार्थम्
(ग) इति + अस्मिन् = इत्यस्मिन्
(घ) एतेषु + एव = एतेष्वेव
(ङ) सहसा + एव = सहसैव
5. मञ्जूषातः समुचितानि पदानि चित्वा रिक्तस्थानानि पूरयत-
रचयन्ति गृहीत्वा सहसा जिज्ञासा
(क) छात्रा: पुस्तकानि गृहीत्वा विद्यालयं गच्छन्ति ।
(ख) मालाकाराः पुष्पैः मालाः रचयन्ति |
(ग) मम मनसि एका जिज्ञासा वर्तते।
(घ) रमेश : मित्रैः सह विद्यालयं गच्छति ।
(ङ) सहसा बालिका तत्र अहसत।
6. पदनिर्माणं कुरुत-
धातुः प्रत्ययः पदम्
यथा- कृ + तुमुन् = कर्तुम्
हृ + तुमुन् = हर्तुम्
तृ + तुमुन् = तर्तुम्
यथा- नम् + क्त्वा = नत्वा
गम् + क्त्वा = गत्वा
त्यज् + क्त्वा = त्यक्त्वा
भुज् + क्त्वा = भुक्त्वा
उपसर्गः धातुः प्रत्ययः = पदम्
यथा- उप गम् ल्यप् = उपगम्य
सम् पूज् ल्यप् = सम्पूज्य
आ नी ल्यप् = आगीय
प्र दा ल्यप् = प्रदाय
7. कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
यथा - विद्यालयं परितः वृक्षाः सन्ति । (विद्यालय)
(क) ग्रामम् उभयतः ग्रामाः सन्ति । (ग्राम)
(ख) नगरम् सर्वतः अट्टालिकाः सन्ति । (नगर)
(ग) धिक् कापुरुषम् । ( कापुरुष)
यथा- मृगाः मृगैः सह धावन्ति । (मृग )
(क) बालकाः बालिकाभिः सह पठन्ति । (बालिका)
(ख) पुत्र पित्रा सह आपणं गच्छति । (पितृ)
(ग) शिशुः मात्रा सह क्रीडति । (मातृ)
Either way the teacher or student will get the solution to the problem within 24 hours.