The NCERT Sanskrit Textbook for Class 8 Solution अध्याय-14 आर्यभट:

 चतुर्दशः पाठः 

आर्यभटः

[ भारतवर्ष की अमूल्य निधि है ज्ञान - विज्ञान की सुदीर्घ परम्परा । इस परम्परा को सम्पोषित किया प्रबुद्ध मनीषियों ने। इन्हीं मनीषियों में अग्रगण्य थे आर्यभट | दशमलव पद्धति आदि के प्रारम्भिक प्रयोक्ता आर्यभट ने गणित को नयी दिशा दी। इन्हें एवं इनके प्रवर्तित सिद्धान्तों को तत्कालीन रूढिवादियों का विरोध झेलना पड़ा । वस्तुतः गणित को विज्ञान बनाने वाले तथा गणितीय गणना पद्धति के द्वारा आकाशीय पिण्डों की गति का प्रवर्तन करने वाले ये प्रथम आचार्य थे। आचार्य आर्यभट के इसी वैदुष्य का उद्घाटन प्रस्तुत पाठ में है । ]

पूर्वदिशायाम् उदेति सूर्यः पश्चिमदिशायां च अस्तं गच्छति इति दृश्यते हि लोके । परं न अनेन अवबोध्यमस्ति यत्सूर्यो गतिशील इति । सूर्योऽचलः पृथिवी च चला या स्वकीये अक्षे घूर्णति इति साम्प्रतं सुस्थापितः सिद्धान्तः । सिद्धान्तोऽयं प्राथम्येन येन प्रवर्तितः, सः आसीत् महान् गणितज्ञः ज्योतिर्विच्च आर्यभटः । पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः तेन प्रत्यादिष्टा । तेन उदाहृतं यद् गतिशीलायां नौकायाम् उपविष्टः मानवः नौकां स्थिरामनुभवति, अन्यान् च पदार्थान् गतिशीलान् अवगच्छति । एवमेव गतिशीलायां पृथिव्याम् अवस्थितः मानवः पृथिवीं स्थिरामनुभवति सूर्यादिग्रहान् च गतिशीलान् वेत्ति ।

सरलार्थ - संसार में यह दिखाई देता है कि सूर्य पूर्व दिशा में उदय होता है और पश्चिम दिशा में अस्त होता है । परन्तु इससे यह नहीं ज्ञात होता कि सूर्य गतिशील है । सूर्य अचल है और पृथ्वी चलायमान है जो अपनी धुरी पर घूमती है, यह इस समय भली-भाँति स्थापित सिद्धांत है। इस सिद्धांत को सर्वप्रथम जिसने प्रारम्भ किया, वह थे महान् गणितज्ञ और ज्योतिषी आर्यभट । पृथ्वी स्थिर है, परम्परा से चली आ रही इस प्रथा का उन्होंने खण्डन किया। उन्होंने उदाहरण दिया कि चलती हुई नाव में बैठा व्यक्ति नाव को स्थिर ( रुकी हुई) अनुभव करता है, और दूसरे पदार्थों को गतिशील समझता है। इसी प्रकार गतिशील पृथ्वी पर स्थित मनुष्य पृथ्वी को स्थिर अनुभव करता है और सूर्य आदि ग्रहों को गतिशील समझता है ।

476 तमे ख्रिस्ताब्दे (षट्सप्तत्यधिकचतुःशततमे वर्षे) आर्यभट: जन्म लब्धवानिति तेनैव विरचिते 'आर्यभटीयम्' इत्यस्मिन् ग्रन्थे उल्लिखितम् । ग्रन्थोऽयं तेन त्रयोविंशतितमे वयसि विरचितः । ऐतिहासिकस्रोतोभिः ज्ञायते यत् पाटलिपुत्रं निकषा आर्यभटस्य वेधशाला आसीत् । अनेन इदम् अनुमीयते यत् तस्य कर्मभूमिः पाटलिपुत्रमेव आसीत् ।

सरलार्थ - सन् 476 ईस्वीं में (चार सौ छिहत्तरवें वर्ष में ) आर्यभट ने जन्म लिया, यह उन्हीं के द्वारा रचित 'आर्यभटीयम्' नामक ग्रन्थ में उल्लेख किया है। यह ग्रन्थ उन्होंने तेईस (23) वर्ष की आयु में लिखा था । ऐतिहासिक स्त्रोतों से ज्ञात होता है कि पाटलिपुत्र (पटना) के निकट आर्यभट की ग्रहों, नक्षत्रों को जानने की प्रयोगशाला थी । इससे यह अनुमान किया जाता है कि उनकी कर्मभूमि पाटलिपुत्र ही थी ।

आर्यभटस्य योगदानं गणितज्योतिषा सम्बद्धं वर्तते यत्र संख्यानाम् आकलनं महत्त्वम् आदधाति। आर्यभटः फलितज्योतिषशास्त्रे न विश्वसिति स्म । गणितीयपद्धत्या कृतम् आकलनमाधृत्य एव तेन प्रतिपादितं यद् ग्रहणे राहु-केतु नामका दानवा नास्ति कारणम् । तत्र तु सूर्यचन्द्रपृथिवी इति त्रीणि एव कारणानि । सूर्यं परित: भ्रमन्त्याः पृथिव्याः, चन्द्रस्य परिक्रमापथेन संयोगाद् ग्रहणं भवति । यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते तदा चन्द्रग्रहणं भवति । तथैव पृथ्वीसूर्ययोः मध्ये समागतस्य चन्द्रस्य छायापातेन सूर्यग्रहणं दृश्यते ।

सरलार्थ - आर्यभट का योगदान गणित ज्योतिष से सम्बन्ध रखता है, जहाँ संख्याओं की गणना महत्व रखती है । आर्यभट फलित ज्योतिष शास्त्र में विश्वास नहीं रखते थे। गणितीय पद्धति से किए गए आकलन के आधार पर ही उन्होंने प्रतिपादित किया कि ग्रहण में राहु-केतु नामक राक्षस कारण नहीं है । वहाँ तो सूर्य, चन्द्रमा और पृथ्वी ये तीनों ही कारण हैं । सूर्य के चारों ओर घूमती हुई पृथ्वी का चन्द्रमा के घूमने के मार्ग के संयोग से ग्रहण होता है । जब पृथ्वी की छाया पड़ने से चन्द्रमा का प्रकाश रूक जाता है तब चन्द्रग्रहण होता है। वैसे ही पृथ्वी और सूर्य के बीच में आए हुए चन्द्रमा की छाया पड़ने से सूर्यग्रहण होता है । समाजे नूतनानां विचाराणां स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति । भारतीयज्योतिः शास्त्रे तथैव आर्यभटस्यापि विरोधः अभवत्। तस्य सिद्धान्ताः उपेक्षिताः। सः पण्डितम्मन्यानाम् उपहासपात्रं जातः । पुनरपि तस्य दृष्टिः कालातिगामिनी दृष्टा । आधुनिकैः वैज्ञानिकैः तस्मिन्, तस्य च सिद्धान्ते समादरः प्रकटितः । अस्मादेव कारणाद् अस्माकं प्रथमोपग्रहस्य नाम आर्यभट इति कृतम्। वस्तुतः भारतीयायाः गणितपरम्परायाः अथ अथ च विज्ञानपरम्परायाः असौ एकः शिखरपुरुषः आसीत्।
सरलार्थ - समाज में नये विचारों को स्वीकार करने में अधिकतर सामान्य लोग कठिनाई का अनुभव करते हैं । भारतीय ज्योतिष शास्त्र में वैसे ही आर्यभट का भी विरोध हुआ। उनके सिद्धांत नहीं माने गए। वह स्वयं को भारी विद्वान मानने वाले महान् पण्डितों के उपहास के पात्र बन गए । फिर भी उनकी दृष्टि समय को लाँघने वाली देखी गई। आधुनिक वैज्ञानिकों ने उनमें और उनके सिद्धांतों में विश्वास प्रकट किया । इस ही कारण से हमारे पहले उपग्रह का नाम आर्यभट रखा गया ।
वास्तव में गणित की परम्परा और विज्ञान की परम्परा के वह एक शिखर ( महान्) पुरुष थे ।

अभ्यासः

1. एकपदेन उत्तरत- (क) सूर्यः कस्यां दिशायाम् उदेति ? पूर्वदिशायाम् (ख) आर्यभटस्य वेधशाला कुत्र आसीत्? पाटलिपुत्रं निकषा (ग) महान् गणितज्ञः ज्योतिर्विच्च कः अस्ति ? आर्यभटः (घ) आर्यभटेन कः ग्रन्थः रचितः ? आर्यभटीयम् (ङ) अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति ? आर्यभटः 2. पूर्णवाक्येन उत्तरत (क) कः सुस्थापितः सिद्धान्तः ? उ. सूर्योऽचलः पृथिवी च चला, या स्वकीये अक्षे घूर्णति इति सुस्थापितः सिद्धान्तः । (ख) चन्द्रग्रहणं कथं भवति ? उ. यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते तदा चन्द्रग्रहणं भवति । (ग) सूर्यग्रहणं कथं दृश्यते ? उ. यदा पृथ्वीसूर्ययोः मध्ये चन्द्रः समागच्छति तदा सूर्यग्रहणं दृश्यते । (घ) आर्यभटस्य विरोधः किमर्थमभवत्? उ. समाजे नूतनानां विचाराणां स्वीकारणे जनाः काठिन्यम् अनुभवन्ति अस्मादेव कारणाद् आर्यभटस्य विरोधः अभवत् । (ङ) प्रथमोपग्रहस्य नाम आर्यभटः इति कथं कृतम् ? उ. आधुनिकैः वैज्ञानिकैः आर्यभटे, तस्य सिद्धान्ते च समादारः प्रकटितः । अतः अस्माकं प्रथमोपग्रहस्य नाम आर्यभटः इति कृतम! | 3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत (क) सूर्य: पश्चिमायां दिशायाम् अस्तं गच्छति । उ. सूर्यः कस्यां दिशायाम् अस्तं गच्छति? (ख) पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः । उ. पृथिवी स्थिरा वर्तते इति कया प्रचलिता रूढिः ? (ग) आर्यभटस्य योगदानं गणितज्योतिष - सम्बद्धं वर्तते । उ. आर्यभटस्य योगदानं केन सम्बद्धं वर्तते ? (घ) समाजे नूतनविचाराणां स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति । उ. समाजे नूतनविचाराणां स्वीकारणे प्रायः के काठिन्यमनुभवन्ति ? (ङ) पृथ्वीसूर्ययोः मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति । उ. कयोः मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति ? 4. मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- नौकाम् पृथिवी तदा चला अस्तं (क) सूर्यः पूर्वदिशायाम् उदेति पश्चिमदिशायां च अस्तं गच्छति। (ख) सूर्य: अचलः पृथिवी च चला | (ग) पृथिवी स्वकीये अक्षे घूर्णति । (घ) यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते तदा चन्द्रग्रहणं भवति । (ङ) नौकायाम् उपविष्टः मानवः नौकाम् स्थिरामनुभवति । 5. सन्धिविच्छेदं कुरुत- ग्रन्थोऽयम् = ग्रन्थ: + अयम् सूर्याचल: = सूर्य + अचलः तथैव = तथा + एव कालातिगामिनी = काल + अतिगामिनी प्रथमोपग्रहस्य = प्रथम + उपग्रहस्य 6. (अ) अधोलिखितपदानां विपरीतार्थकपदानि लिखत- उदयः अस्तः अचलः चलः अन्धकारः प्रकाश: स्थिरः अस्थिर: समादरः निरादर : आकाशस्य पृथिव्याः (आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत- संसारे लोके इदानीम् साम्प्रतम् वसुन्धरा पृथिवी समीपम् निकषा गणनम् आकलनम् राक्षसौ दानवौ 7. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत- साम्प्रतम् - साम्प्रतं छात्राः पठन्ति । निकषा - गृहं निकषा एक विद्यालयम् अस्ति । परितः - ग्रामं परितः पर्वताः सन्ति । उपविष्टः - वृक्षे एकः खगः उपविष्टः अस्ति । कर्मभूमिः - आर्यभटस्य कर्मभूमिः पाटलिपुत्रम् अस्ति । वैज्ञानिक : - आर्यभटः एकः प्रसिद्धः वैज्ञानिकः आसीत् ।

Post a Comment

0Comments

Either way the teacher or student will get the solution to the problem within 24 hours.

Post a Comment (0)
close