The NCERT Sanskrit Textbook for Class 8 Solution अध्याय-5 कन्टकेनैव कण्टकम्

 पञ्चमः पाठः

कण्टकेनैव कण्टकम् 

[ मध्यप्रदेश के डिण्डोरी जिले में परधानों के बीच प्रचलित एक लोककथा है। यह पञ्चतन्त्र की शैली में रचित है। इस कथा में यह स्पष्ट किया गया है कि संकट में चतुराई एवं प्रत्युत्पन्नमतित्व से बाहर निकला जा सकता है । ]

आसीत् कश्चित् चञ्चलो नाम व्याधः । पक्षिमृगादीनां ग्रहणेन सः स्वीयां जीविकां निर्वाहयति स्म। एकदा सः वने जालं विस्तीर्य गृहम् आगतवान् । अन्यस्मिन् दिवसे प्रातः काले यदा चञ्चलः वनं गतवान् तदा सः दृष्टवान् यत् तेन विस्तारिते जाले दौर्भाग्याद् एकः व्याघ्रः बद्धः आसीत्। सोऽचिन्तयत्, 'व्याघ्रः मां खादिष्यति अतएव पलायनं करणीयम् ।' व्याघ्रः न्यवेदयत्-'भो मानव ! कल्याणं भवतु ते। यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि ।' तदा सः व्याधः व्याघ्रं जालात् बहिः निरसारयत्। व्याघ्रः क्लान्तः आसीत्। सोऽवदत्, 'भो मानव! पिपासुः अहम्। नद्याः जलमानीय मम पिपासां शमय। व्याघ्रः जलं पीत्वा पुनः व्याधमवदत्, शमय मे पिपासा । साम्प्रतं बुभुक्षितोऽस्मि । इदानीम् अहं त्वां खादिष्यामि । ' चञ्चलः उक्तवान्, 'अहं त्वत्कृते धर्मम् आचरितवान् । त्वया मिथ्या भणितम्। त्वं मां खादितुम् इच्छसि?

सरलार्थ - कोई चंचल नाम का शिकारी था। वह पक्षियों और पशुओं आदि का पकड़कर अपना जीवन यापन करता था। एक बार वह जंगल में जाल बिछाकर घर आ गया। दूसरे दिन सुबह जब चंचल जंगल गया तब उसने देखा कि उसके द्वारा बिछाए हुए जाल में दुर्भाग्य से एक बाघ फँसा था। उसने सोचा, 'बाघ मुझे खा जाएगा इसलिए भाग जाना चाहिए । बाघ ने निवेदन किया- 'हे मनुष्य ! तुम्हारा कल्याण हो । यदि तुम मुझे छुड़ाओगे तो मैं तुम्हे नहीं मारूँगा ।' तब उस शिकारी ने बाघ को जाल से बाहर निकाला। बाघ थका हुआ था। वह बोला, ' है मानव ! मैं प्यासा हूँ | नदी से जल लाकर मेरी प्यास शान्त करो। बाघ जल पीकर फिर से शिकारी से बोला, 'मेरी प्यास बुझ गई है। अब मैं भूखा हूँ। अब मैं तुम्हे खाऊँगा । चंचल ने कहा, 'मैंने तुम्हारे लिए धर्म का कार्य किया है । तुमने झूठ बोला । तुम मुझे खाना चाहते हो ।

व्याघ्रः अवदत्, 'अरे मूर्ख ! क्षुधार्ताय किमपि अकार्यम् न भवति । सर्वःस्वार्थ समीहते। चञ्चलः नदीजलम् अपृच्छत्। नदीजलम् अवदत्, एवमेव भवति, जना: मयि स्नानं कुर्वन्ति, वस्त्राणि प्रक्षालयन्ति तथा च मल-मूत्रादिकं विसृज्य निवर्तन्ते, वस्तुतः सर्वः स्वार्थ समीहते। चञ्चलः वृक्षम् उपगम्य अपृच्छत्। वृक्षः अवदत्, 'मानवाः अस्माकं छायायां विरमन्ति । अस्माकं फलानि खादन्ति, पुनः कुठारैः प्रहृत्य अस्मभ्यं सर्वदा कष्टं ददति । यत्र कुत्रापि छेदनं कुर्वन्ति। सर्वः स्वार्थं समीहते।

सरलार्थ - बाघ बोला, 'अरे मूर्ख ! भूख मिटाने के लिए कुछ भी अकार्य नहीं होता। सभी में स्वार्थ होता है । चंचल ने नदी के जल से पूछा । नदी के जल ने कहा, 'ऐसा ही होता है, लोग मुझमें नहाते हैं, कपड़े धोते हैं तथा मल-मूत्र आदि डालकर वापस चले जाते हैं, इसलिए सभी में स्वार्थ होता है । चंचल ने वृक्ष के पास जाकर पूछा । वृक्ष बोला, लोग हमारी छाया में विश्राम करते हैं। हमारे फल खाते हैं, फिर कुल्हाड़ी से प्रहार करके हमें हमेशा कष्ट देते हैं । जहाँ कहीं भी काट देते हैं । सभी में स्वार्थ होता है ।

समीपे एका लोमशिका बदरी - गुल्मानां पृष्ठे निलीना एतां वार्तां शृणोति स्म । सा सहसा चञ्चलमुपसृत्य कथयति- का वार्ता ? माम् अपि विज्ञापय । " सः अवदत्- अहह मातृस्वसः! अवसरे त्वं समागतवती । मया अस्य व्याघ्रस्य प्राणाः रक्षिताः, परम् एषः मामेव खादितुम् इच्छति। ” तदनन्तरं सः लोमशिकायै निखिलां कथां न्यवेदयत्। लोमशिका चञ्चलम् अकथयत्- बाढम् त्वं जालं प्रसारय । पुनः सा व्याघ्रम् अवदत्- केन प्रकारेण त्वम् एतस्मिन् जाले बद्धः इति अहं प्रत्यक्षं द्रष्टुमिच्छामि ।

सरलार्थ - पास में एक लोमड़ी बेर की झाड़ियों के पीछे छिपकर इस बात को सुन रही थी । वह अचानक चंचल के पास जाकर कहती है- 'क्या बात है ? मुझे भी बताओ।' वह बोला- 'अरे मौसी ! तुम ठीक समय आई हो। मैंने इस बाघ के प्राणों की रक्षा की है, परन्तु यह मुझे ही खाना चाहता है।' इसके बाद उसने लोमड़ी को सारी कहानी बताई। लोमड़ी ने चंचल से कहा- अच्छा, तुम जाल फैलाओ। फिर बाघ से बोली- तुम किस प्रकार से इस जाल में फँसे थे, मैं यह अपनी आँखों से देखना चाहती हूँ।

व्याघ्रः तद् वृत्तान्तं प्रदर्शयितुं तस्मिन् जाले प्राविशत् । लोमशिका पुनः अकथयत् - सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय । सः तथैव समाचरत् । अनारतं कूर्दनेन सः श्रान्तः अभवत्। जाले बद्धः सः व्याघ्रः क्लान्तः सन् निःसहायो भूत्वा तत्र अपतत् लोमशिका व्याघ्रम् अवदत् सत्यं प्राणभिक्षामिव च अयाचत ।
त्वया भणितम् ‘सर्वः स्वार्थं समीहते ।

सरलार्थ - बाघ ने उस बात को बताने के लिए उस जाल में प्रवेश किया। लोमड़ी ने फिर कहा- अब बार-बार कूद कर दिखाओ। उसने वैसा ही किया । लगातार कूदने से वह थक गया । जाल में बँधा हुआ वह बाघ थककर असहाय होकर वही गिर गया और प्राणों की भिक्षा माँगने लगा । लोमड़ी बाघ से बोली, तुमने सत्य ही कहा है, 'सभी में स्वार्थ होता है।

अभ्यासः

1. एकपदेन उत्तरं लिखत-
(क) व्याधस्य नाम किम् आसीत्?                         चंचलः
(ख) चञ्चलः व्याघ्रं कुत्र दृष्टवान् ?                            जाले
(ग) कस्मै किमपि अकार्यं न भवति ।                    क्षुधार्ताय
(घ) बदरी - गुल्मानां पृष्ठे का निलीना आसीत्?     लोमशिका
(ङ) सर्व : किं समीहते?                                        स्वार्थम्
(च) निःसहायो व्याधः किमयाचत?                    प्राणाभिक्षाम् 
2- पूर्णवाक्येन उत्तरत-
(क) चञ्चलेन वने किं कृतम् ?
उ. चंचलेन वने जालं विस्तारितम् ।
(ख) व्याघ्रस्य पिपासा कथं शान्ता अभवत्?
उ. व्याघ्रस्य पिपासा नद्याः जलं पीत्वा शान्ता अभवत् ।
(ग) जलं पीत्वा व्याघ्रः किम् अवदत् ?
उ. जलं पीत्वा व्याघ्रः अवदत्, 'साम्प्रतं बुभुक्षितोऽस्मि । इदानीम् अहं त्वां खादिष्यामि ।'
(घ) चञ्चल: 'मातृस्वसः !' इति कां सम्बोधितवान्?
उ. चंचलः ‘मातृस्वसः !' इति लोमशिकां सम्बोधितवान् ।
(ङ) जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याधः किम् अकरोत् ?
उ. जाले पुनः बद्धः व्याघ्रः दृष्ट्वा व्याधः प्रसन्नः भूत्वा गृहं गतवान् ।
3. अधोलिखितानि वाक्यानि कः / का कं/कां प्रति कथयति-

                                                                                              कः/का           कं/कां
यथा इदानीम् अहं त्वां खादिष्यामि ।                                         व्याघ्रः            व्याधम्
 (क) कल्याणं भवतु ते ।                                                            व्याघ्रः            व्याधम्
(ख) जनाः मयि स्नानं कुर्वन्ति ।                                                नदीजलम्         व्याधम्
(ग) अहं त्वत्कृते धर्मम् आचरितवान् त्वया मिथ्या भणितम्।       व्याधः            व्याघ्रम्
(घ) यत्र कुत्रापि छेदनं कुर्वन्ति ।                                                   वृक्षः              व्याधम्
(ङ) सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय ।                              लोमशिका         व्याघ्रम्
4. रेखांकित पदमाधृत्य प्रश्ननिर्माण-
क) व्याधः व्याघ्रं जालात् बहिः निरसारयत् ।
उ. व्याधः व्याघ्रं कस्मात् बहिः निरसारयत् ?
(ख) चञ्चलः वृक्षम् उपगम्य अपृच्छत्।
उ. चंचलः कम् उपगम्य अपृच्छत् ?
(ग) व्याघ्रः लोमशिकायै निखिलां कथां न्यवेदयत्। 
उ. व्याधः कस्यै निखिलां कथां न्यवेदयत् ?
घ) मानवाः वृक्षाणां छायायां विरमन्ति।
उ. मानवाः केषां छायायां विरमन्ति ?
ङ) व्याघ्रः नद्याः जलेन व्याधस्य पिपासामशमयत्।
उ. व्याधः कस्याः जलेन व्याघ्रस्य पिपासामरामयत् ?
5. मञ्जूषातः पदानि चित्वा कथां पूरयत-
वृद्धः              कृतवान्        अकस्मात्        दृष्ट्वा        मोचयितुम् 
साट्टहासम्      क्षुद्रः         तर्हि            स्वकीयैः      कर्तनम् 

एकस्मिन् वने एकः वृद्धः व्याघ्रः आसीत् । सः एकदा व्याधेन विस्तारिते जाले बद्ध: अभवत्। सः बहुप्रयासं कृतवान् किन्तु जालात् मुक्तः नाभवत् । अकस्मात् तत्र एक: मूषकः समागच्छत् । बद्धं व्याघ्रं दृष्ट्वा सः तम् अवदत् - अहो ! भवान् जाले बद्धः । अहं त्वां मोचयितुम् इच्छामि । तच्छ्रुत्वा व्याघ्रः साट्टहासम् अवदत् - अरे ! त्वं क्षुद्रः जीवः मम साहाय्यं करिष्यसि । यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि । मूषकः स्वकीयैः लघुदन्तैः तज्जालस्य कर्तनम् कृत्वा तं व्याघ्रं बहि:कृतवान्।
6. यथानिर्देशमुत्तरत-
(क) सः लोमशिकायै सर्वा कथां न्यवेदयत् - अस्मिन् वाक्ये विशेषणपदं किम् ?
उ. सर्वाम्
ख) अहं त्वत्कृते धर्मम् आचरितवान् अत्र अहम् इति सर्वनामपदं कस्मै प्रयुक्तम् ?
उ. व्याधाय / चंचलाय
(ग) 'सर्वः स्वार्थं समीहते', अस्मिन् वाक्ये कर्तृपदं किम् ?
उ. सर्वः
(घ) सा सहसा चञ्चलमुपसृत्य कथयति | वाक्यात् एकम् अव्ययपदं चित्वा लिखत ।
उ. सहसा
(ङ) 'का वार्ता ? माम् अपि विज्ञापय' अस्मिन् वाक्ये क्रियापदं किम्? क्रियापदस्य पदपरिचयमपि लिखत ।
उ. अस्मिन् वाक्ये 'विज्ञापय' क्रियापदं अस्ति । पदपरिचय - वि उपसर्ग, ज्ञा धातु, लोट लकार मध्यम पुरुष एकवचन

Post a Comment

0Comments

Either way the teacher or student will get the solution to the problem within 24 hours.

Post a Comment (0)
close