The NCERT Sanskrit Textbook for Class 8 Solution अध्याय-13 क्षितौ राजते भारतस्वर्णभूमि:

 त्रयोदशः पाठः

क्षितौ राजते भारतस्वर्णभूमिः

[प्रस्तुत पाठ्यांश डॉ. कृष्णचन्द्र त्रिपाठी द्वारा रचित हैं, जिसमे भारत के गौरव का गुणगान है। इसमें देश की खाद्यान्न सम्पन्नता, कलानुराग, प्राविधिक प्रवीणता, वन एवं सामरिक शक्ति की महनीयता को दर्शाया गया है। प्राचीन परम्परा, संस्कृति, आधुनिक मिसाइल क्षमता एवं परमाणु शक्ति सम्पन्नता के गीत द्वारा कवि ने देश की सामर्थ्यशक्ति का वर्णन किया है। छात्र संस्कृत के इन श्लोकों का सस्वर गायन करें तथा देश के गौरव को महसूस करें, इसी उद्देश्य से इन्हें यहाँ संकलित किया गया है । ]

सुपूर्ण सदैवास्ति खाद्यान्नभाण्डं 
नदीनां जलं यत्र पीयूषतुल्यम्। 
इयं स्वर्णवद् भाति शस्यैर्धरेय 
क्षितौ राजते भारतस्वर्णभूमिः ॥1॥

अन्वय - (यत्र) खाद्यान्नभाण्डंसदैव सुपूर्णम् अस्ति, यत्र नदीनां जलं पीयूषतुल्यम् (भवति) । इयं धरा शस्यैः स्वर्णवद् भाति, इयं क्षितौ भारतस्वर्णभूमिः राजते ।

सरलार्थ - जहाँ (इस भारतभूमि में) अन्न के भंडार हमेशा भरे रहते हैं, जहाँ नदियों का जल अमृत के समान होता है। यह धरती फसलों से सोने के समान सुशोभित होती है, (यह भारत देश ) इस धरती पर स्वर्णभूमि के समान सुशोभित होता है ।

त्रिशूलाग्निनागैः पृथिव्यस्त्रघोरैः 
अणूनां महाशक्तिभिः पूरितेयम् । 
सदा राष्ट्ररक्षारतानां धरेयम्
क्षितौ राजते भारतस्वर्णभूमिः ||2||

अन्वय - अयं त्रिशूलाग्निनागैः पृथिव्यस्त्रघोरैः अणूनां महाशक्तिभिः पूरितेयम् अस्ति । सदा राष्ट्ररक्षारतानां धरा (अस्ति), इयं क्षितौ भारतस्वर्णभूमिः राजते ।

सरलार्थ - यह (भारतभूमि) त्रिशूल, अग्नि, नाग, पृथ्वी आदि खतरनाक अस्त्रौ और परमाणु महाशक्तियों से परिपूर्ण है । हमेशा राष्ट्र की रक्षा में लगे हुए वीरों की भूमि है, (यह भारत देश) इस धरती पर स्वर्णभूमि के समान सुशोभित होता है ।

इयं वीरभोग्या तथा कर्मसेव्या 
जगद्वन्दनीया च भूः देवगेया । 
सदा पर्वणामुत्सवानां धरेयं
क्षितौ राजते भारतस्वर्णभूमिः ||3||

अन्वय - इयं वीरभोग्या तथा कर्मसेव्या जगद्वन्दनीया देवगेया च भूः (अस्ति ) । सदा पर्वणामुत्सवानां धरा (अस्ति), इयं क्षितौ भारतस्वर्णभूमिः राजते ।

सरलार्थ - यह (भारतभूमि) वीरों के द्वारा भोग्य, कर्म के द्वारा सेवनीय, संसार के द्वारा वन्दनीय और देवताओं के द्वारा गाने योग्य भूमि है। यह हमेशा पर्वों और उत्सवों की भूमि है, (यह भारत देश ) इस धरती पर स्वर्णभूमि के समान सुशोभित होता है ।

इयं ज्ञानिनां चैव वैज्ञानिकानां 
विपश्चिज्जनानामियं संस्कृतानाम् । 
बहूनां मतानां जनानां धरेयं
क्षितौ राजते भारतस्वर्णभूमिः ||4||

अन्वय - इयं ज्ञानिनां वैज्ञानिकानां विपश्चिज्जनानामियं संस्कृतानां चैव (धरा अस्ति । बहूनां मतानां जनानां धरा ( अस्ति), इयं क्षितौ भारतस्वर्णभूमिः राजते ।

सरलार्थ - यह (भारतभूमि) ज्ञानियों की, वैज्ञानिकों की, विद्वान जनों की और सुसंस्कृत लोगों की भूमि है। यह अनेक मतों को मानने वालों की भूमि है, (यह भारत देश) इस धरती पर स्वर्णभूमि के समान सुशोभित होता है ।

इयं शिल्पिनां यन्त्रविद्याधराणां 
भिषक्शास्त्रिणां भूः प्रबन्धे युतानाम् । 
नटानां नटीनां कवीनां धरेयं
क्षितौ राजतै भारतस्वर्णभूमिः ||5||

अन्वय - इयं शिल्पिनां यन्त्रविद्याधराणां भिषक्शास्त्रिणां प्रबन्धे युतानां (च) भूः (अस्ति ) | ( इय) नटानां नटीनां कवीनां धरा ( अस्ति), इयं क्षितौ भारतस्वर्णभूमिः राजते ।

सरलार्थ - यह ( भारतभूमि) शिल्पकारों, यन्त्र - विद्या जानने वालों, चिकित्सकों भूमि है। यह अभिनेताओं, अभिनेत्रियों और कवियों देश ) इस धरती पर स्वर्णभूमि के समान सुशोभित और अच्छे प्रबन्धकों की की भूमि है, यह भारत होता है ।

वने दिग्गजानां तथा केसरीणां 
तटीनामियं वर्तते भूधराणाम्।
शिखीनां शुकानां पिकानां धरेयं
क्षितौ राजते भारतस्वर्णभूमिः ||6||

अन्वय - इयं वने दिग्गजानां केसरीणां तटीनां भूधराणां शिखीनां शुकानां तथा | पिकानां धरा वर्तते । इयं क्षितौ भारतस्वर्णभूमिः राजते ।

सरलार्थ - यह (भारतभूमि) वन में हाथियों, शेरों, नदियों, पर्वतों, मयूरों, तोतों, और कोयलों की भूमि है, (यह भारत देश) इस धरती पर स्वर्णभूमि के समान सुशोभित होता है ।

अभ्यासः

1. प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) इयं धरा कैः स्वर्णवद् भाति ?           शस्यैः
(ख) भारतस्वर्णभूमिः कुत्र राजते ?          क्षितौ
(ग) इयं केषां महाशक्तिभिः पूरिता?         अणूनाम् 
(घ) इयं भूः कस्मिन् युतानाम् अस्ति ?       प्रबन्धे
(ङ) अत्र किं सदैव सुपूर्णमस्ति ?              खाद्यान्नभाण्डम्  
2. समानार्थकपदानि पाठात् चित्वा लिखत- 
(क) पृथिव्याम् क्षितौ (क्षितौ/पर्वतेषु/ त्रिलोक्याम्) 
(ख) सुशोभते भाति (लिखते/ भाति/पिबति)
(ग) बुद्धिमताम् विपश्चिज्जनानाम् (पर्वणाम् / उत्सवानाम्/विपश्चिज्जनानाम्)
(घ) मयूराणाम्  शिखीनाम (शिखीनाम्/शुकानाम्/पिकानाम्)
(ङ) अनेकेषाम् बहूनाम् (जनानाम्/वैज्ञानिकानाम् / बहूनाम्)
3. श्लोकांशमेलनं कृत्वा लिखत- 
(क) त्रिशूलाग्निनागैः पृथिव्यास्त्रघोरैः                नदीनां जलं यत्र पीयूषतुल्यम् 
(ख) सदा पर्वणामुत्सवानां धरेयम्                    जगद्वन्दनीया च भू:देवगेया
(ग) वने दिग्गजानां तथा केसरीणाम्                  क्षितौ राजते भारतस्वर्णभूमिः
(घ) सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम्                 अणूनां महाशक्तिभिः पूरितेयम् 
(ङ) इयं वीरभोग्या तथा कर्मसेव्या                      तटीनामियं वर्तते भूधराणाम् 
 
त्रिशूलाग्निनागैः पृथिव्यास्त्रघोरैः                             अणूनां महाशक्तिभिः पूरितेयम् 
सदा पर्वणामुत्सवानां धरेयम्                                  क्षितौ राजते भारतस्वर्णभूमिः
वने दिग्गजानां तथा केसरीणाम्                              तटीनामियं वर्तते भूधराणाम् 
सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम्                             नदीनां जलं यत्र पीयूषतुल्यम् 
इयं वीरभोग्या तथा कर्मसेव्या                                  जगद्वन्दनीया च भू:देवगेया
4. चित्रं दृष्ट्वा ( पाठात् ) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत-
क) अस्मिन् चित्रे एका नदी वहति ।
(ख) नदी पर्वतात् निःसरति ।
(ग) नद्याः जलं शुद्धं भवति ।
(घ) नदीजलेन शस्यसेचनं भवति ।
(ङ) भारतः स्वर्ण भूमि: अस्ति |
5. चित्राणि दृष्ट्वा ( मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्तिं कुरुत-
       अस्त्राणाम्, भवति, अस्त्राणि, सैनिकाः, प्रयोगः, उपग्रहाणां

(क) अस्मिन् चित्रे अस्त्राणि दृश्यन्ते।
(ख) एतेषाम् अस्त्राणां प्रयोगः युद्धे भवति।
(ग) भारतः एतादृशानां अस्त्राणां प्रयोगेण विकसितदेशः मन्यते ।
(घ) अत्र परमाणुशक्तिप्रयोगः अपि भवति
(ङ) आधुनिकैः अस्त्रैः सैनिका: अस्मान् शत्रुभ्यः रक्षन्ति ।
(च) उपग्रहाणां सहायतया बहूनि कार्याणि भवन्ति ।
6. ( अ ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत-

(क) इदं चित्रं दीपावलीपर्वस्य अस्ति । 
(ख) अत्र जनाः दीपान् प्रज्ज्वलयन्ति । 
(ग) सर्वे जनाः प्रसन्नाः सन्ति ।
(घ) पिता पुत्रं च दीपान् दृष्ट्वा प्रसीदतः 
(ङ) जनाः नवीनानि वस्त्राणि अधारयन
(आ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत-

(क) इदं रक्षाबन्धनपर्वस्य चित्रं अस्ति ।
(ख) भगिनी स्वभ्रातरं रक्षासूत्रं बध्नाति । 
(ग) भ्राता भगिनी च प्रसन्नाः स्तः ।
(घ) भ्राता भगिनीं उपहारं ददाति ।
(ङ) सः भगिन्याः रक्षार्थं प्रतिबद्धोऽस्ति ।

Post a Comment

0Comments

Either way the teacher or student will get the solution to the problem within 24 hours.

Post a Comment (0)
close