The NCERT Sanskrit Textbook for Class 8 Solution अध्याय-11 सावित्री बाई फुले

 एकादशः पाठः

सावित्री बाई फुले

[शिक्षा हमारा अधिकार है। हमारे समाज में कई समुदाय इससे लम्बे समय तक वञ्चित रहे हैं। उन्हें इस अधिकार को पाने के लिए लम्बा संघर्ष करना पड़ा है। लड़कियों को तो और ज्यादा अवरोध झेलना पड़ता रहा है। प्रस्तुत पाठ इस संघर्ष का नेतृत्व करने वाली प्रातः स्मरणीय एवम् अनुकरणीय महिला शिरोमणि सावित्री बाई फुले के योगदान पर केन्द्रित है । ]

उपरि निर्मितं चित्रं पश्यत । इदं चित्रं कस्याश्चित् पाठशालायाः वर्तते । इयं सामान्या पाठशाला नास्ति । इयमस्ति महाराष्ट्रस्य प्रथमा कन्यापाठशाला । एका शिक्षिका गृहात् पुस्तकानि आदाय चलति। मार्गे कश्चित् तस्याः उपरि धूलिं कश्चित् च प्रस्तरखण्डान् क्षिपति। परं सा स्वदृढनिश्चयात् न विचलति। स्वविद्यालये कन्याभिः सविनोदम् आलपन्ती सा अध्यापने संलग्ना भवति । तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति । केयं महिला ? अपि यूयमिमां महिलां जानीथ ? इयमेव महाराष्ट्रस्य प्रथमा महिला शिक्षिका सावित्री बाई फुले नामधेया ।

सरलार्थ - ऊपर बने चित्र को देखो। यह चित्र किसी विद्यालय का है । यह सामान्य विद्यालय नहीं है। यह महाराष्ट्र का पहला कन्या (बालिका) विद्यालय है। एक अध्यापिका घर से पुस्तकें लेकर चलती है । रास्ते में कोई उसके ऊपर धूल और कोई पत्थर फेंकता है । परन्तु वह अपने दृढ़ निश्चय से विचलित नहीं होती। अपने विद्यालय में बालिकाओं के साथ हँसी-मजाक के साथ बात करती हुई वह पढ़ाने लग जाती । उसकी खुद की पढ़ाई भी साथ ही चलती है। यह महिला कौन है ? क्या आप लोग इस महिला को जानते हो? यह ही महाराष्ट्र की पहली महिला अध्यापिका है, इनका नाम सावित्री बाई फुले है ।

जनवरी मासस्य तृतीये दिवसे १८३१ तमे ख्रिस्ताब्दे महाराष्ट्रस्य नायगांव - नाम्नि स्थाने सावित्री अजायत । तस्याः माता लक्ष्मीबाई पिता च खण्डोजी इति अभिहितौ । नववर्षदेशीया सा ज्योतिबा फुले - महोदयेन परिणीता । सोऽपि तदानीं त्रयोदशवर्षकल्पः एव आसीत् । यतोहि सः स्त्रीशिक्षायाः प्रबलः समर्थकः आसीत् अतः सावित्र्याः मनसि स्थिता अध्ययनाभिलाषा उत्साहं प्राप्तवती । इतः परं सा साग्रहम् आङ्ग्लभाषाया अपि अध्ययनं कृतवती । 

सरलार्थ - जनवरी महीने के तीसरे दिन (3 जनवरी) सन् 1831 ईस्वी में महाराष्ट्र के नायगाँव नामक स्थान पर सावित्री ने जन्म लिया। उनकी माता लक्ष्मीबाई और पिता खण्डोजी नाम वाले थे। नौ वर्ष की आयु में उनका विवाह ज्योतिबा फुले महोदय के साथ हुआ। उनकी भी उस समय तेरह वर्ष की आयु ही थी। क्योंकि वह स्त्री शिक्षा के प्रबल समर्थक थे इसलिए सावित्री के मन में स्थित अध्ययन की इच्छा बढ़ गई। इसके बाद उन्होंने आग्रहपूर्वक अंग्रेजी भाषा की भी पढ़ाई की।

१८४८ तमे ख्रिस्ताब्दे पुणेनगरे सावित्री ज्योतिबामहोदयेन सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत। तदानीं सा केवलं सप्तदशवर्षीया आसीत्। १८५१ तमे ख्रिस्ताब्दे अस्पृश्यत्वात् तिरस्कृतस्य समुदायस्य बालिकानां कृते पृथक्तया तया अपर: विद्यालयः प्रारब्धः।

सरलार्थ - सन् 1848 ईस्वी में पुणे नगर में सावित्री ने ज्यातिबा महोदय के साथ बालिकाओं के लिए प्रदेश का पहला विद्यालय आरम्भ किया। उस समय वह केवल सत्रह ( 17 ) साल की थी। 1851 ईस्वी में उन्होंने छुआछूत के कारण तिरस्कृत समुदाय की बालिकाओं के लिए अलग से दूसरा विद्यालय आरम्भ किया |

सामाजिककुरीतीनां सावित्री मुखरं विरोधम् अकरोत्। विधवानां शिरोमुण्डनस्य निराकरणाय सा साक्षात् नापितैः मिलिता। फलतः केचन नापिताः अस्यां रूढौ सहभागिताम् अत्यजन्। एकदा सावित्र्या मार्गे दृष्टं यत् कूपं निकषा शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म । उच्चवर्गीयाः उपहासं कुर्वन्त्यः कूपात् जलोद्धरणम् अवारयन् । सावित्री एतत् अपमानं सोढुं नाशक्नोत् । सा ताः स्त्रियः निजगृहं नीतवती। तडागं दर्शयित्वा अकथयत् च यत् यथेष्टं जलं नयत। सार्वजनिकोऽयं तडागः। अस्मात् जलग्रहणे नास्ति जातिबन्धनम्। तया मनुष्याणां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा सर्वथा समर्थितः। 

सरलार्थ - सामाजिक कुरीतियों का सावित्री ने प्रबल विरोध किया। विधवाओं का मुण्डन कराने की प्रथा को रोकने के लिए वह स्वयं नाईयों से मिली । फलस्वरूप कुछ नाईयों ने इस प्रथा में अपनी भागीदारी को त्याग दिया। एक बार सावित्री ने रास्ते में देखा कि कुएं के पास फटे-पुराने कपड़े पहने हुए कुछ निम्न जाति की स्त्रियाँ पानी पीने के लिए प्रार्थना कर रही थी । उच्चवर्ग वाली स्त्रियों ने उनका उपहास करते हुए उन्हे कुएं से पानी निकालने के लिए मना कर दिया। सावित्री यह अपमान सहन नहीं कर सकी । वह उन स्त्रियों को अपने घर ले गई। तालाब दिखाते हुए कहा कि जितना जल चाहिए ले लो। यह तालाब सबके लिए है। यहाँ से जल लेने में जाति का बंधन नहीं है । उन्होने मनुष्य की समानता और स्वतंत्रता के पक्ष का हमेशा सब प्रकार से समर्थन किया ।

'महिला सेवामण्डल' 'शिशुहत्याप्रतिबन्धकगृहम्' इत्यादीनां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्। सत्यशोधकमण्डलस्य गतिविधिषु अपि सावित्री अतीव सक्रिया आसीत्। अस्य मण्डलस्य उद्देश्यम् आसीत् उत्पीडितानां समुदायानां स्वाधिकारान् प्रति जागरणम् इति।

सरलार्थ - 'महिला सेवामण्डल' 'शिशुहत्या प्रतिबन्धक गृह आदि संस्थाओं की स्थापना में फुले दम्पत्ती का योगदान महत्पूर्ण रहा है। सत्यशोधक मण्डल की गतिविधियों में भी सावित्री अत्यन्त सक्रिय थी। इस मण्डल का उद्देश्य पीड़ित समुदाय के लोगों को उनके अधिकारों के बारे में जागरूक करना था |

सावित्री अनेकाः संस्थाः प्रशासनकौशलेन सञ्चालितवती । दुर्भिक्षकाले प्लेग-काले च सा पीडितजनानाम् अश्रान्तम् अविरतं च सेवाम् अकरोत् । सहायता - सामग्री - व्यवस्थायै सर्वथा प्रयासम् अकरोत्। महारोगप्रसारकाले सेवारता सा स्वयम् असाध्यरोगेण ग्रस्ता १८९७ तमे ख्रिस्ताब्दे निधनं गता ।

सरलार्थ – सावित्री ने अनेक संस्थाओं का अपने प्रशासन कौशल से संचालन किया। अकाल के समय और प्लेग के समय उन्होने बिना थके और रूके पीड़ितों की सेवा की। सहायता सामग्री की व्यवस्था के लिए सब प्रकार से प्रयास किया। महामारी फैलने के समय सेवाकार्य में लगी हुई वह स्वयं असाध्य रोग से ग्रसित होकर सन् 1897 ईस्वी में मृत्यु को प्राप्त हुई ।

साहित्यरचनया अपि सावित्री महीयते। तस्याः काव्यसङ्कलनद्वयं वर्तते 'काव्यफुले' 'सुबोधरत्नाकर' चेति। भारतदेशे जीवनचरितम् अवश्यम् अध्येतव्यम्। महिलोत्थानस्य गहनावबोधाय सावित्रीमहोदयायाः |

सरलार्थ - साहित्य रचना में भी सावित्री महान् थी । उनके दो काव्य संग्रह हैं 'काव्यफुले' और 'सुबोधरत्नाकर । भारत देश में महिला के उत्थान को गहराई से समझने के लिए सावित्री महोदया का जीवन चरित्र अवश्य पढ़ना चाहिए ।

अभ्यासः

1. एकपदेन उत्तरत-
(क) कीदृशीनां कुरीतीनां सावित्री मुखरं विरोधम् अकरोत् ?        सामाजिक कुरीतीनाम्  
(ख) के कूपात् जलोद्धरणम् अवारयन्?                                        उच्चवर्गीयाः
(ग) का स्वदृढनिश्चयात् न विचलति ?                                            सावित्रीबाई
(ङ) सा कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?                कन्यानाम् 
(घ) विधवानां शिरोमुण्डनस्य निराकरणाय सा कै: मिलिता ?           नापितैः
2. पूर्णवाक्येन उत्तरत-
(क) किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति ?
उ. यदा सावित्री स्वगृहात् विद्यालयं प्रति चलति तदैव जनाः तस्याः उपरि प्रस्तरखण्डान् क्षिपन्ति स्म । इदं सहमाना सा स्वदृढनिश्चयात् न विचलति ।
(ख) सावित्रीबाईफुलेमहोदयायाः पित्रोः नाम किमासीत्?
उ. सावित्रीबाईफुलेमहोदयायाः माता लक्ष्मीबाई पिता च खंडोजी आस्ताम् ।
(ग) विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती? 
उ. सावित्र्याः पतिः स्त्रीशिक्षायाः प्रबलसमर्थकः आसीत् अतः तस्याः अध्ययनाभिलाषा उत्साहं प्राप्तवती ।
(घ) जलं पातुं निवार्यमाणाः नारी: सा कुत्र नीतवती किञ्चाकथयत् ?
उ. सा ताः स्त्रियः निजगृहं नीतवती । तडागं दर्शयित्वा अकथयत् च यत् यथेष्टं जलं नयत ।
ङ) कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्?
उ. 'महिला सेवामण्डल' 'शिशुहत्या प्रतिबंधक गृह इत्यादिनां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम् ।
(च) सत्यशोधकमण्डलस्य उद्देश्यं किमासीत्?
उ. सत्यशोधकमण्डलस्य उद्देश्यम् आसीत् - उत्पीडितानां समुदायानां स्वाधिकारान्  प्रति जागरणम् ।
(छ) तस्याः द्वयोः काव्यसङ्कलनयोः नामनी के ?
उ. तस्याः द्वयोः काव्यसंकलनयोः नामनी 'काव्यफुले' 'सुबोधरत्नाकर' चेति ।
3. रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
क) सावित्रीबाई, कन्याभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म । 
उ. सावित्रीबाई, काभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म ?
ख) सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत् ।
उ. सा कस्य प्रथमा महिला शिक्षिका आसीत्?
(ग) सा स्वपतिना सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत। 
उ. सा स्वपतिना सह कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
(घ) तया मनुष्याणां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः । 
उ. तया केषां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः ?
(ङ) साहित्यरचनया अपि सावित्री महीयते । 
उ. साहित्यरचनया अपि का महीयते?
4. यथानिर्देशमुत्तरत-
क) इदं चित्रं पाठशालायाः वर्तते - अत्र 'वर्तते' इति क्रियापदस्य कर्तृपदं किम् ? 
उ. चित्रम् ।
(ख) तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति - अस्मिन् वाक्ये विशेष्यपदं किम् ? 
उ. अध्ययनम् ।
(ग) अपि यूयमिमां महिलां जानीथ - अस्मिन् वाक्ये 'यूयम्' इति पदं केभ्यः प्रयुक्तम् ? 
उ. पाठकेभ्यः ।
(घ) सा ताः स्त्रियः निजगृहं नीतवती - अस्मिन् वाक्ये 'सा' इति सर्वनामपदं कस्यै प्रयुक्तम् ? 
उ. सावित्र्यै ।
(ङ) शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म - अत्र 'नार्यः' इति पदस्य विशेषणपदानि कति सन्ति, कानि च इति लिखत ?
उ. इत्यस्य चत्वारि विशेषणपदानि सन्ति ।
तानि च - शीर्णवस्त्रावृता, तथाकथिता, निम्नजातीयाः, काश्चित् ।
5- अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
(क) स्वकीयम् - वयं स्वकीयं कार्यम् कुर्याम ।
(ख) सविनोदम् - सः सविनोदं क्रीडति ।
(ग) सक्रिया - माला राजनीतिकार्येषु सक्रिया अस्ति ।
(घ) प्रदेशस्य -  राजस्थानप्रदेशस्य राजधानी जयपुरम् अस्ति । 
(ङ) मुखरम्  - सा मुखरं विरोधम् अकरोत् ।
(च) सर्वथा - सावित्री सर्वथा कन्यानां मार्गदर्शनम् अकरोत् ।
6.(अ) अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
(क) उपरि - वृक्षस्य उपरि चटकाः सन्ति ।
(ख) आदानम् - वयं सद्विचाराणाम् आदान-प्रदानं कुर्याम | 
(ग) परकीयम् - कन्या परकीयं धनं वर्तते ।
(घ) विषमता - कदापि नारी - नरयोः विषमता न भवेत् ।
(ङ) व्यक्तिगतम् - इदं मम व्यक्तिगतं कार्यम् अस्ति ।
च) आरोह: - वृक्षे आरोहः हानिकरः अपि भवति ।
(आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत- 
             मार्गे अविरतम अध्यापने अवदानम् यथेष्टम् मनसि
(क) शिक्षणे - अध्यापने
(ख) पथि - मार्गे 
(ग) हृदय - मनसि
(घ) इच्छानुसारम् - यथेष्टम्
(ङ) योगदानम् - अवदानम्
(च) निरन्तरम् - अविरतम्

7. ( अ ) अधोलिखितानां पदानां लिङ्ग, विभक्ति, वचनं च लिखत-
 पदानि                लिङ्गम्           विभक्तिः      वचनम्
(क) धूलिम्          स्त्रीलिंग          द्वितीया        एकवचनम्
(ख) नाम्नि            नपुंसकलिंग      सप्तमी       एकवचनम्
(ग) अपरः             पुल्लिंग            प्रथमा         एकवचनम्
घ) कन्यानाम्         स्त्रीलिंग           षष्ठी             बहुवचनम्
(ङ) सहभागिता      स्त्रीलिंग           प्रथमा          एकवचनम्
(च) नापितै:              पुल्लिंग           तृतीया          बहुवचनम्
(आ) उदाहरणमनुसृत्य निर्देशानुसारं लकारपरिवर्तनं कुरुत-
              यथा सा शिक्षिका अस्ति। (लङ्लकारः) सा शिक्षिका आसीत् ।
(क) सा अध्यापने संलग्ना भवति । (लृटलकारः)                सा अध्यापने संलग्ना भविष्यति ।
(ख) सः त्रयोदशवर्षकल्पः अस्ति । (लङ्लकारः)             सः त्रयोदशवर्षकल्पः आसीत् ।
(ग) महिलाः तडागात् जलं नयन्ति । ( लोट्लकारः)           महिलाः तडागात् जलं नयन्तु ।
(घ) वयं प्रतिदिनं पाठं पठामः । (विधिलिङ्ग)                     वयं प्रतिदिनं पाठं पठेम |
(ङ) यूयं किं विद्यालयं गच्छथ ? (लृटलकारः)                    यूयं किं विद्यालयं गमिष्यथ ।
(च) ते बालकाः विद्यालयात् गृहं गच्छन्ति । (लङ्लकारः)    ते बालकाः विद्यालयात् गृहं अगच्छन् ।

Post a Comment

0Comments

Either way the teacher or student will get the solution to the problem within 24 hours.

Post a Comment (0)
close