द्वितीयः पाठः
बिलस्य वाणी न कदापि मे श्रुता
[ प्रस्तुत पाठ संस्कृत के प्रसिद्ध कथाग्रन्थ 'पञ्चतन्त्रम्' के तृतीय तन्त्र ' काकोलूकीयम्' से संकलित है। पञ्चतन्त्र के मूल लेखक विष्णुशर्मा हैं। इसमें पाँच खण्ड हैं जिन्हें 'तन्त्र' कहा गया है। इनमें गद्य-पद्य रूप में कथाएँ दी गयी हैं जिनके पात्र मुख्यतः पशु-पक्षी हैं।]
कस्मिंश्चित् वने खरनखरः नाम सिंहः प्रतिवसति स्म । सः कदाचित्इ तस्ततः परिभ्रमन् क्षुधार्तः न किञ्चिदपि आहारं प्राप्तवान्। ततः दृष्ट्वा सः अचिन्तयत्-जीवः आगच्छति । सूर्यास्तसमये एकां महतीं गुहां “ नूनम् एतस्यां गुहायां रात्रौ कोऽपि अतः अत्रैव निगूढो भूत्वा तिष्ठामि " इति ।
सरलार्थ - किसी जंगल में खरनखर नाम का शेर रहता था । कभी इधर-उधर घूमते हुए भूख से पीड़ित उसे कुछ भी भोजन प्राप्त नहीं हुआ । तब सूर्यास्त के समय एक बड़ी गुफा देखकर उसने सोचा- “ निश्चय ही इस गुफा में रात में कोई जीव आता है | इसलिए यहीं छिपकर बैठता हूँ ।
एतस्मिन् अन्तरे गुहाया: स्वामी दधिपुच्छः नामकः शृगालः समागच्छत्। स च यावत् पश्यति तावत् सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते, न च बहिरागता । शृगालः अचिन्तयत् - " अहो विनष्टोऽस्मि । नूनम् अस्मिन् बिले सिंहः अस्तीति तर्कयामि। तत् किं करवाणि?" एवं विचिन्त्य दूरस्थः रवं कर्तुमारब्धः- “भो बिल ! भो बिल! किं न स्मरसि, यन्मया त्वया सह समयः कृतोऽस्ति यत् यदाहं बाह्यतः प्रत्यागमिष्यामि तदा त्वं माम् आकारयिष्यसि ? यदि त्वं मां न आह्वयसि तर्हि अहं द्वितीयं बिलं यास्यामि इति ।
सरलार्थ - इसी बीच गुफा का स्वामी दधिपुच्छ नाम का गीदड़ आ गया । वह जहाँ तक देखता वहाँ तक शेर के पैरों के निशान गुफा में प्रवेश करते दिखे और बाहर नहीं आए। गीदड़ ने सोचा- "अरे, मैं तो मर गया । निश्चय ही इस गुफा में शेर है, ऐसा मैं सोचता हूँ। तो क्या करूँ ?” ऐसा सोचकर दूर खड़े होकर आवाज करना शुरू कर दिया- “ है बिल ! है बिल ! क्या तुम्हें याद नहीं कि मैंने तुम्हारे साथ समझौता किया है कि जब मैं बाहर से वापस आऊँगा तब तुम मुझे बुलाओगी? यदि तुम मुझे नहीं बुलाती तो मैं दूसरे बिल में चला जाऊँगा ।
अथ एतच्छ्रुत्वा सिंहः अचिन्तयत् -" नूनमेषा गुहा स्वामिनः सदा समाह्वानं करोति । परन्तु मद्भयात् न किञ्चित् वदति । "
अथवा साध्विदम् उच्यते-
सरलार्थ - इसके बाद यह सुनकर शेर ने सोचा कि - " निश्चय ही यह गुफा स्वामी को सदा बुलाती है । परन्तु मेरे डर से कुछ नहीं बोलती ।”
अथवा यह ठीक ही कहते हैं-
भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः ।
प्रवर्तन्ते न वाणी च वेपथुश्चाधिको भवेत् ।।
अन्वय - भयसन्त्रस्तमनसां हस्तपादिकाः क्रिया वाणी च न प्रवर्तन्ते, वेपथुः च अधिकः भवेत् ।
सरलार्थ - भय से डरे हुए मन वाले लोगो के हाथ, पैर की क्रियाएँ और वाणी ठीक से काम नहीं कर पाती हैं और घबराहट अधिक होती है ।
तदहम् अस्य आह्वानं करोमि । एवं सः बिले प्रविश्य मे भोज्यं भविष्यति । इत्थं विचार्य सिंहः सहसा शृगालस्य आह्वानमकरोत्। सिंहस्य उच्चगर्जन - प्रतिध्वनिना सा गुहा उच्चैः शृगालम् आह्वयत्। अनेन अन्येऽपि पशवः भयभीताः अभवन्। शृगालोऽपि ततः दूरं पलायमानः इममपठत्-
सरलार्थ - तो मैं इसको पुकारता हूँ । इस प्रकार वह बिल में प्रवेश करके मेरा भोजन बनेगा | इस प्रकार विचार करके शेर ने अचानक गीदड़ को पुकारा । शेर की जोर से गर्जने की प्रतिध्वनि से वह गुफा जोर से गीदड़ को पुकारती है । इस प्रकार दूसरे पशु भी भयभीत हो गए। गीदड़ ने भी वहाँ से दूर भागते हुए यह पढ़ा-
अनागतं यः कुरुते स शोभते
स शोच्यते यो न करोत्यनागतम् ।
वनेऽत्र संस्थस्य समागता जरा
बिलस्य वाणी न कदापि मे श्रुता ।।
अन्वय - यः अनागतं कुरुते स शोभते, यः अनागतं न करोति स शौच्यते । अत्र वने संस्थस्य (मे) जरा समागता (परं) मे कदापि बिलस्य वाणी न श्रुता ।
सरलार्थ - जो आने वाले दुःख का उपाय करता है, वह शोभा पाता है और जो आने वाले दुःख का उपाय नहीं करता है, वह दुःखी होता है । यहाँ वन में रहते हुए मेरा बुढ़ापा आ गया है परन्तु मैंने कभी बिल की वाणी नहीं सुनी।
अभ्यासः
1. उच्चारणं कुरुत-
कस्मिंश्चित् विचिन्त्य साध्विदम्
क्षुधार्त: एतच्छ्रुत्वा भयसन्त्रस्तमनसाम्
सिंहपदपद्धतिः समाह्वानम् प्रतिध्वनिः
2. एकपदेन उत्तरं लिखत-
क) सिंहस्य नाम किम् ? खरनखरः
ख) गुहायाः स्वामी कः आसीत्? दधिपुच्छः
(ग) सिंहः कस्मिन् समये गुहायाः समीपे आगत: ? सूर्यास्तसमये
(घ) हस्तपादादिकाः क्रियाः केषां न प्रवर्तन्ते ? भयसन्त्रस्तमनसाम्
(ङ) गुहा केन प्रतिध्वनिता? उच्चगर्जनेन
3. पूर्णवाक्येन उत्तरत-
(क) खरनखरः कुत्र प्रतिवसति स्म ?
उ. खरनखरः कस्मिंश्चित् वने प्रतिवसति स्म ।
(ख) महतीं गुहां दृष्ट्वा सिंहः किम् अचिन्तयत् ?
उ. महतीं गुहां दृष्ट्वा सिंहः अचिन्तयत्- “ नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति । अतः अत्रैव निगूढो भूत्वा तिष्ठामि” इति ।
(ग) शृगालः किम् अचिन्तयत् ?
उ. शृगालः अचिन्तयत्- “अहो विनष्टोऽस्मि । नूनम् अस्मिन् बिले सिंहः अस्तीति तर्कयामि । तत् किं करवाणि ?”
(घ) शृगालः कुत्र पलायित: ?
उ. शृगालः दूरं पलायितः ।
(ङ) गुहासमीपमागत्य शृगालः किं पश्यति?
उ. गुहासमीपमागत्य शृगालः यावत् पश्यति तावत् सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते, न च बहिरागता ।
(च) कः शोभते?
उ. यः अनागतं कुरूते सः शोभते ।
4. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) क्षुधार्तः सिंहः कुत्रापि आहारं न प्राप्तवान्?
उ. कीदृशः सिंहः कुत्रापि आहारं न प्राप्तवान् ?
ख) दधिपुच्छः नाम शृगालः गुहायाः स्वामी आसीत्?
उ. किं नाम शृगालः गुहायाः स्वामी आसीत् ?
(ग) एषा गुहा स्वामिनः सदा आह्वानं करोति ?
उ. एषा गुहा कस्य सदा आह्वानं करोति ?
(घ) भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते?
उ. भयसन्त्रस्यमनसां कीदृशाः क्रियाः न प्रवर्तन्ते ?
(ङ) आह्वानेन शृगालः बिले प्रविश्य सिंहस्य भोज्यं भविष्यति ?
उ. आह्वानेन शृगालः कस्मिन् प्रविश्य सिंहस्य भोज्यं भविष्यति ?
5. घटनाक्रमानुसारं वाक्यानि लिखत-
(क) गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत्।
ख) सिंहः एकां महतीं गुहाम् अपश्यत् ।
(ग) परिभ्रमन् सिंहः क्षुधार्तो जातः ।
(घ) दूरस्थः शृगालः रवं कर्त्तुमारब्धः ।
(ङ) सिंहः शृगालस्य आह्वानमकरोत् ।
(च) दूरं पलायमानः शृगालः श्लोकमपठत् ।
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचारः ।
उ. परिभ्रमन् सिंहः क्षुधार्तो जातः ।
उ. सिंहः एकां महतीं गुहाम् अपश्यत् ।
उ. गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत् ।
उ. गुहायां कोऽपि अस्ति इति शृगालस्य विचारः ।
उ. दूरस्थः शृगालः रवं कर्त्तुमारब्धः ।
उ. सिंहः शृगालस्य आह्वानमकरोत् ।
उ. दूरं पलायमानः शृगालः श्लोकमपठत् ।
6. यथानिर्देशमुत्तरत-
(क) 'एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्' अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत
उ. अस्मिन् वाक्ये द्वे विशेषणपदे स्तः । 1. एकाम् 2. महतीम्
ख) तदहम् अस्य आह्वानं करोमि - अत्र ' अहम्' इति पदं कस्मै प्रयुक्तम् ?
उ. सिंहाय
(ग) 'यदि त्वं मां न आह्वयसि' अस्मिन् वाक्ये कर्तृपदं किम् ?
उ. त्वम्
(घ) 'सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते' अस्मिन् वाक्ये क्रियापदं किम् ?
उ. दृश्यते
(ङ) 'वनेऽत्र संस्थस्य समागता जरा' अस्मिन् वाक्ये अव्ययपदं किम् ?
उ. अत्र
7. मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
कश्चन दूरे नीचैः यदा तदा यदि तर्हि परम् च सहसा
एकस्मिन् वने कश्चन व्याधः जालं विस्तीर्य दूरे स्थितः । क्रमशः आकाशात् सपरिवारः कपोतराजः नीचैः आगच्छत्। यदा कपोताः तण्डुलान् अपश्यन् तदा तेषां लोभो जातः । परं राजा सहमतः नासीत् । तस्य युक्तिः आसीत् यदि वने कोऽपि मनुष्यः नास्ति । कुतः तण्डुलानाम् सम्भवः । परम् राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले च निपतिताः । अतः उक्तम् सहसा विदधीत न क्रियाम् ।
Either way the teacher or student will get the solution to the problem within 24 hours.