The NCERT Sanskrit Textbook for Class 8 Solution अध्याय-1 सुभाषितानि:

 प्रथमः पाठः

सुभाषितानि

[' सुभाषित' शब्द 'सु + भाषित' इन दो शब्दों के मेल से सम्पन्न होता है । सु का अर्थ सुन्दर, मधुर तथा भाषित का अर्थ वचन है । इस तरह सुभाषित का अर्थ सुन्दर / मधुर वचन है। प्रस्तुत पाठ में सूक्तिमञ्जरी, नीतिशतकम्, मनुस्मृतिः, शिशुपालवधम्, पञ्चतन्त्रम् से रोचक और विचारपरक श्लोकों को संगृहीत किया गया है । ]

गुणा गुणज्ञेषु गुणा भवन्ति 
ते निर्गुणं प्राप्य भवन्ति दोषाः । 
सुस्वादुतोयाः प्रभवन्ति नद्यः 
समुद्रमासाद्य भवन्त्यपेयाः ।।1।।

अन्वय - गुणा गुणज्ञेषु गुणा भवन्ति, ते ( गुणाः) निर्गुणं प्राप्य दोषाः भवन्ति । (यथा) नद्यः सुस्वादुतोयाः प्रभवन्ति, (परं) समुद्रम् आसाद्य (ताः ) अपेयाः भवन्ति ।

सरलार्थ - गुण, गुणी व्यक्ति के पास रहते हैं तो गुण ही होते है, वे गुण निर्गुण व्यक्ति के पास जाकर दोष बन जाते हैं। जैसे नदियाँ स्वादिष्ट जल से युक्त निकलती हैं, परन्तु समुद्र में जाकर वे पीने योग्य नहीं रहती है ।

 साहित्यसङ्गीतकलाविहीनः 
साक्षात्पशुः पुच्छविषाणहीनः । 
तृणं न खादन्नपि जीवमानः
तद्भागधेयं परमं पशूनाम् ||2||

अन्वय - साहित्यसंगीतकलाविहीनः (जनः ) पुच्छविषाणहीनः साक्षात् पशुः (अस्ति ) | तृणं न खादन् अपि जीवमानः (अस्ति ) | (इदम्) तद् पशूनाम् परमं भागधेयं ( अस्ति ) |

सरलार्थ - साहित्य, संगीत और कला से रहित व्यक्ति बिना पूँछ और सींग वाला साक्षात् पशु है । घास न खाता हुआ भी जीवित है । यह उन पशुओं का परम सौभाग्य है ।

लुब्धस्य नश्यति यशः पिशुनस्य मैत्री 
नष्टक्रियस्य कुलमर्थपरस्य धर्मः । 
विद्याफलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥3॥

अन्वय - लुब्धस्य यशः, पिशुनस्य मैत्री, नष्टक्रियस्य कुलम्, अर्थपरस्य धर्मः, व्यसनिनः विद्याफलं, कृपणस्य सौख्यं, प्रमत्तसचिवस्य नराधिपस्य राज्यं (च) नश्यति ।

सरलार्थ - लालची व्यक्ति का यश, चुगलखोर से मित्रता, अकर्मण्य व्यक्ति का वंश, धन के लोभी का धर्म, बुरी लत वाले की विद्या का फल, कंजूस का सुख और आलसी मंत्री वाले राजा के राज्य का नारा हो जाता है |

पीत्वा रसं तु कटुकं मधुरं समानं 
माधुर्यमेव जनयेन्मधुमक्षिकासौ । 
सन्तस्तथैव समसज्जनदुर्जनानां
श्रुत्वा वचः मधुरसूक्तरसं सृजन्ति ॥4॥

अन्वय -  ( यथा) असौ मधुमक्षिका तु कटुकं मधुरं (वा) रसं समानं पीत्वा माधुर्यम् एव जनयेत् । तथैव सन्तः समसज्जनदुर्जनानां वचः श्रुत्वा मधुरसूक्तरसं (एव) सृजन्ति |

सरलार्थ - यह मधुमक्खी तो कड़वा अथवा मीठा रस समान रूप से पीकर मीठे रस का ही निर्माण करती है । उसी प्रकार सन्त लोग सज्जन और दुर्जन लोगों की बातें समान रूप से सुनकर मधुर सूक्त रस (मीठी वाणी ) का ही निर्माण करते हैं ।

विहाय पौरुषं यो हि दैवमेवावलम्बते । 
प्रासादसिंहवत् तस्य मूर्ध्नि तिष्ठन्ति वायसाः ॥5॥

अन्वय - अन्वय यो पौरुषं विहाय दैवमेव अवलम्बते । प्रासादसिंहवत् तस्य मूर्ध्नि वायसाः तिष्ठन्ति ।

सरलार्थ - जो व्यक्ति परिश्रम को छोड़कर केवल भाग्य का ही सहारा लेता है । उस व्यक्ति की स्थिति महल में बने हुए उस शेर की तरह हो जाती है, जिसके सिर पर कौएँ बैठते हैं ।

पुष्पपत्रफलच्छायामूलवल्कलदारुभिः ।
धन्या महीरुहाः येषां विमुखं यान्ति नार्थिनः ||6|| 

अन्वय - पुष्पपत्रफलच्छायामूलवल्कलदारुभिः महीरुहाः धन्या ( भवन्ति ) । येषां अर्थिनः विमुखं न यान्ति ।

सरलार्थ - फूल, पत्ते, फल, छाया, जड़, छाल, लकड़ी आदि से युक्त पेड़ धन्य हैं। जिसके कारण याचक कभी भी उनसे विमुख ( निराश) नहीं होते ।

चिन्तनीया हि विपदाम् आदावेव प्रतिक्रियाः ।
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे ॥7॥

अन्वय - विपदाम् आदावेव हि प्रतिक्रिया चिन्तनीया । गृहे वहूह्निना प्रदीप्ते कूपखननं न युक्तम् ।

सरलार्थ - विपत्ति आने के पहले ही उसका समाधान ढूढ़ लेना चाहिए। (विपत्ति आने के बाद उसका समाधान ढूढ़ना उतना ही अनुचित है, जैसे ) घर में आग लग जाने पर कुआँ खोदना अनुचित है ।

अभ्यासः

1. पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत ।
2. श्लोकांशेषु रिक्तस्थानानि पूरयत-
(क) समुद्रमासाद्य भवन्त्यपेया: |
ख) श्रुत्वा वचः मधुरसूक्तरसं सृजन्ति ।
(ग) तद्भागधेयं परम पशूनाम्।
(घ) विद्याफलं व्यसनिनः कृपणस्य सौख्यम्।
(ङ) पौरुषं विहाय यः दैवमेव अवलम्बते ।
(च) चिन्तनीया हि विपदाम् आदादेव प्रतिक्रियाः।
3. प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) व्यसनिनः किं नश्यति?    विद्याफलम्  
(ख) कस्य यशः नश्यति?        लुब्धस्य
(ग) मधुमक्षिका किं जनयति ?   माधुर्यम्    
(घ) मधुरसूक्तरसं के सृजन्ति ?   संतः
ङ) अर्थिनः केभ्यः विमुखा न यान्ति ?  महीरुहेभ्यः
4. अधोलिखित-तद्भव शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
यथा- कंजूस       कृपण:
        कड़वा      कटुकम्
          पूँछ            पुच्छः
          लोभी         लुब्धः
       मधुमक्खी    मधुमक्षिका
        तिनका            तृणम्
5. अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-
                       वाक्यानि                       कर्त्ता        क्रिया 
यथा - सन्तः मधुरसूक्तरसं सृजन्ति ।      सृजन्ति    भवन्ति
(क) निर्गुणं प्राप्य भवन्ति दोषाः ।             दोषाः     भवन्ति
(ख) गुणज्ञेषु गुणाः भवन्ति ।                     गुणाः     भवन्ति
(ग) मधुमक्षिका माधुर्यं जनयेत् ।         मधुमक्षिका   जनयेत्
(घ) पिशुनस्य मैत्री यशः नाशयति ।         मैत्री        नाशयति
(ङ) नद्यः समुद्रमासाद्य अपेयाः भवन्ति ।   नद्यः        भवन्ति
6. रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) गुणा: गुणज्ञेषु गुणाः भवन्ति ।
उ. के गुणज्ञेषु गुणाः भवन्ति ?
(ख) नद्यः सुस्वादुतोयाः भवन्ति । 
उ. काः सुस्वादुतोयाः भवन्ति ?
(ग) लुब्धस्य यशः नश्यति ।
उ. कस्य यशः नश्यति?
(घ) मधुमक्षिका माधुर्यमेव जनयति ।
उ. का माधुर्यमेव जनयति ?
(ङ) तस्य मूर्ध्नि तिष्ठन्ति वायसाः ।
उ. तस्य कुत्र / कस्मिन् तिष्ठन्ति वायसाः ?
7. उदाहरणानुसारं पदानि पृथक् कुरुत-
यथा-समुद्रमासाद्य        =   समुद्रम्  +  आसाद्य
माधुर्यमेव          =     माधुर्यम् + एव
अल्पमेव         =     अल्पम्  + एव
सर्वमेव                 सर्वम् + एव
दैवमेव                      दैवम् + एव
महात्मनामुक्तिः     =     महात्मनाम् + उक्तिः
विपदामादावेव     =    विपदामादौ + एव 
                                  विपदाम् + आदौ + एव 

Post a Comment

0Comments

Either way the teacher or student will get the solution to the problem within 24 hours.

Post a Comment (0)
close